पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३८
नैषधीयचरिते


 दिक्षिति ॥ अहं चतसृषु प्राच्यादिदिक्षु चतुरोपि समुद्रान् यस्य वराहस्य खुराणां चतुष्टयस्य मुद्रां विन्यासं स्थापितचरणातिभारसंजातभूगर्तमेवाभ्यवैमि जाने, तस्य पोत्रिवपुषो महावराहदेहस्य तव दंष्ट्रा मम तुष्टये कामपूर्त्यानन्दायास्तु । किंभूता दंष्ट्रा-जगत्याः पातालादुद्धरणाद्भूमेर्वास्तु वसतिगृहम् । धृतभूमिरित्यर्थः । 'कोलः पोत्री किरिः किटिः' इत्यमरः । षित्त्वप्राप्तस्य ङीषोऽनित्यत्वाद्दंष्ट्रा ॥

उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः ।
ब्राह्ममण्डमभवट्वलिनीपं केलिकोल तव तत्र न [१]मातः॥ ५९॥

 उद्धृतीति ॥ हे केल्या क्रीडामात्रेण कोल धृतवराहरूप भगवन्, हिरण्याक्षं दैत्यं हत्वा पातालात्सकाशादुद्धृतावुद्धरणसमये स्खलन्त्याः पतन्त्या इलाया भुवः परिरम्भात्समारम्भेण धारणादालिङ्गनाच्च हेतोर्बहु नितरां हृष्टैरुन्नतीभूतैः, अतएव-ब्रह्माण्डं निर्भिद्य बहिरितैर्निर्गतैर्लोमभिः कृत्वा ब्राह्ममण्डं तव बलेः पूजायाः संबन्धि नीपं तत्कालविकसितकदम्बकुसुममिवाभवत् । किंभूतस्य-तत्र ब्रह्माण्डे स्थूलतरदेहत्वान्न मातः संमातुमशक्तस्य । एवंविधकुसुमपूजायोग्यस्त्वमेव भवसीत्यर्थः । अन्योपि योषिदालिङ्गनादुदितरोमाञ्चो भवति। 'ब्राह्मोजातौ' इति साधुः। मातः, ‘मा माने' इत्यस्माच्छता॥

 श्लोकद्वयेन श्रीनृसिंहं वर्णयति-

दानवाद्यगहनप्रभवस्त्वं सिंह मामव रवैर्घनघोरैः ।
वैरिदारिदिविषत्सुकृतास्त्रग्रामसंभवभवन्मनुजार्धः ॥ ६० ॥

 दानवेति ॥ हे सिंह, दानवानामाद्यस्य प्रथमस्य हिरण्यकशिपोर्गहनं मरणरूपं संकटं तदर्थं प्रभव उत्पत्तिः प्राकट्यं यस्य तन्मारणार्थं कृतावतारः, अथच-दानवो हिरण्यकशिपुस्तद्रूपमाद्यं पुरातनं यद्गहनं वनं तत्र प्रभवो यस्य । पुरातने हि बने सिंहसंभवो युक्तः, अथच-दानवानामाद्यः श्रीहरिभक्तत्वान्मुख्यः प्रह्लादस्तस्य गहने पितृकारितताडनादिदुःखनिमित्ते हिरण्यकशिपुविदारणद्वारा भक्तप्रहादसंरक्षणार्थं धृतोत्पत्तिर्येन तादृशस्त्वं घनवन्मेघवद्धोरैर्गम्भीरैर्निबिडैर्भीषणैश्च वा रवैः सिंहनादैर्मामव । किं भूतः-वैरिणःशत्रून्दारयन्ति तच्छीलानि दिविषदां मुनीनां देवानां च सुकृतानि अस्त्राणि च तेषां ग्रामः समूहस्तस्मात् संभव उत्पत्तिर्यस्य तादृशो भवन् संपद्यमानो मनुजो मनुष्य एवार्ध एकदेशो यस्य । 'दानवाघ-' इतिपाठे-दानवानां पापानि तेषां गहनं लक्षणया बाहुल्यं तेन प्रभवो यस्य । दानवदुरितोद्रेकात्तिर्यग्योनिसिंहरूपत्वं, दिविषत्पुण्योद्रेकाच्चोत्तमयोनिमनुष्यरूपत्वमित्यर्थः । दानवानामाद्यस्य हिरण्यकशिपोर्गहने सभामहोद्याने प्रभवः प्रकटनं यस्य वा । एतेन स्वर्गवासिनां पुण्यैरस्त्रैश्च कृतमनु- ध्यार्धदेहःस्वतेजोनिर्मितसिंहार्धश्च नरहरिहिरण्यकशिपोर्महासभोपवने एवावततारेति सकलपुराणसंवादः प्रकटितः। स्तम्भादिति तु प्रवादमात्रमिति भागवतविरोधाटुपेक्ष्यम् ॥


  1. 'मातुः' इति पाठो जीवातुसंमतः ।