पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३९
एकविंशः सर्गः।


दैत्यभर्तुरुदरान्धुनिविष्टां शक्रसंपदमिवोद्धरतस्ते ।
पातु पाणिशृणिपञ्चकमस्माञ्छिन्नरज्जुनिभलमतदन्त्रम् ॥६१ ॥

 दैत्येति ॥ हे श्रीनृसिंह,ते पाणिसंबन्धिनां शृणीनां तीक्ष्णतरनखरूपाणामङ्कुशानां पश्चकमस्मान्पातु । किंभूतस्येव तव-दैत्यभर्तुर्हिरण्यकशिपोरुदरलक्षणेऽन्धौ कूपे निविष्टां पतितां शक्रसंपदमुद्धरत इव तस्माद्वहिर्निर्गमयत इव । किंभूतं पञ्चकम्-छिन्नरज्जुनिभानि मध्यत्रुटितपूर्वपतितदोरकतुल्यानि लग्नानि तस्य दैत्यरिपोरुदरस्य चान्त्राणि यत्र यस्य वा।यथा कूपपतितं वस्तु समुद्धर्तुं लौहनिर्मिताङ्कुशपञ्चकं कूपमध्ये निक्षिप्य चालयित्वा पूर्वनिमग्नरज्जुखण्डसहितं तदादाय निर्गच्छति तथा तव रज्जुस्थानीयभुजदण्डकपाणिजश्रुणिपञ्चकं दैत्यराजोदरकूपपतितामिन्दसंपदमुद्धरस्छिन्नरज्जुनिभलग्नतदन्त्रं सन्मामवत्वित्यर्थः । शृणाति हिनस्ति, श्रृणिरौणादिकः । अस्मदो द्वयोश्च' इति बहुत्वम्॥

 श्लोकचतुष्टयेन वामनं वर्णयति-

स्वेन पूर्यत इयं सकलाशा भो बले न मम किं भवतेति ।
त्वं बटुः कपटवाचि पटीयान्धेहि वामन मन:प्रमदं नः ॥ ६२ ॥

 स्वेनेति ॥ हे वामन, इति पूर्वार्धोक्ता कपटवाक् तस्यां विषये पटीयानतिनिपुणो बटुर्ब्रह्मचारिवेषधारी चपलस्त्वं नोऽस्मदादीनां मम वा मनसः प्रमदं हर्षं धेहि सर्वाभिलाषपूरणं कुर्वित्यर्थः । बटवश्च कपटवाचो भवन्ति । इति किम्-पादत्रयमात्रस्थलयाचिनि वामने 'किमेतदल्पीयस्त्वया याचितं, सकलमेतद्भुवनं गृहाण, अहं ददामि' इति दानशूरत्वाद्वलिचक्रवर्तिनि भाषमाणे श्लेषवक्रोक्तिच्छलेन वामनस्य प्रत्युत्तरमेतत्भो बले चक्रवर्तिन् , भवता स्वेनात्मना हेमरत्नादिना द्रव्येण वा इयं मदीया सकलाशा सर्वोऽप्यभिलाषो न पूर्यते, अपितु परिपूर्णा करिष्यत एव, परं मम(यतस्य)भिक्षोः निःस्पृहस्य वा किं प्रयोजनमिति शेषः। त्वं समर्थ एव परं तावता मम प्रयोजनं नास्ति। कुटीनिर्माणार्थं पदत्रयमितं स्थलमेव देहीत्यर्थः । स्वेनात्मीयेन बलेन च सैन्येन च निजशक्तया वा सकला दिक् भवता पूर्यते व्रियत एव, तथापि मम किं तेन, यो यद्याचते तस्मै तद्ददासीति प्रत्यक्षदर्शनाद्धस्ताभिनयदर्शनीयेयं सकलानां जनानां तृष्णा भो बले त्वया परिपूर्णा क्रियते यतः, अतो मम कलया लेशेन सहिता।अल्पीयसीति यावत् । एवंभूता पदत्रयमिता तृष्णा किं न पूर्यते । अपि तु पूरयिष्यत एव । अथ च-भो बले, इयं सकलापि दिशा मम स्वेनात्मना न पूर्यते, अपित्वावरिष्यत एव । भवता किं कर्तुं शक्यते, अपि तु न किंचिदित्यर्थ इति वा । मया सकलाप्याशा सकला दिगात्मना पूर्यते, भवता बलेन मम किं कर्तुं शक्यत इति वा। अथ च-भो बले, पादत्रययाचनविषया मम सकला तृष्णा भवता स्वेनात्मस्वरूपेण स्वदेहेन किं न पूर्यते, अपि तु पूरयिष्यत एव । महीयःशरीरधारणेन लोकद्वये पद्वयेन मया व्याप्ते प्रतिश्रुतं तृतीयं पादमदातुर्निरयो भविष्यतीति भिया शिष्टपदस्थापनार्थं स्वशरीरमेव त्वया दास्यते इ-