पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४०
नैषधीयचरिते

त्यर्थः । त्वां पाताले पातयिष्यामीति भावः । भूस्वर्गरूपं लोकद्वयमेव बलेः स्वम् । नरकपतनभिया स्वशरीरमेव तृतीयपदत्वेन दत्तमिति श्रीभागवते 'पदं तृतीयं कुरु शीर्ष्णि मे निजम्' इति वचनात् । इत्यादिकपटवाग्ज्ञेया । 'प्रमदसंमदौ हर्षे' इति साधुः॥

 एवं वामनेनोक्ते बलिरुत्तरमाह-

दानवारिरसिकायविभूतेर्वश्मि तेस्मि सुतरां प्रतिपतिम् ।
इत्युदग्रपुलकं बलिनोक्तं त्वां नमामि कृतवामनमायम् ॥ ६३ ॥

 दानेति ॥ अहं कृता वामनस्य ह्रस्वपुरुषस्य माया येन तथाहमनेन ज्ञात इति ज्ञात्वा जाताश्चर्यवशादुदग्रपुलकं संजातरोमाञ्चं बलिना इति पूर्वार्धोक्तप्रकारेण वलिचक्रवर्तिनोक्तं भाषितं त्वां नमामि । इति किम्-हे ब्रह्मन् , अस्मि अहं दानवारिणि रसिकाय कृताभिलाषाय ते तुभ्यं विभूतेः स्वीयसंपदः सुतरां प्रतिपत्तिं संकल्पेन दानं वश्मि इच्छामि सर्वां संपदं तुभ्यं दातुमिच्छति । अथ च-त्वं दानवानामरिः शत्रुरसि ते तव कायविभूतेः शरीरवैभवस्य प्रतिपत्तिं ज्ञानं नितरामहमिच्छामि । कीदृशं महच्छरीरं धारयिष्यसि, तद्रष्टुमिच्छामीत्यर्थः । यद्वा तव कायवैभवस्य प्रतिपत्तिं रूपान्तरप्राप्तिं वश्मि । रूपान्तरं धारयिष्यामीति त्वया सूचितम् । तत्सुखेन धारणीयमित्यहं कामय इत्यर्थः। अस्मीत्यहमर्थेऽव्ययम् ॥

 एवं बलिनोक्ते वामनः प्राह-

भोगिभिः क्षितितलेदिवि वासंबन्धमेष्यसि चिरं ध्रियमाणः ।
पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् ॥ ६४ ॥

 भोगिभिरिति ॥ हे वामन, इति एवंरूपाभिश्छद्मवाग्भिः कपटवचनैरुपन्लक्षितस्त्वं विश्वमव रक्ष । इति किम्-भो बले, चिरं चिरायुषेण बहुकालं क्षितितले भूलोके दिवि वाध्रियमाणोऽवतिष्ठमानस्त्वं भोगिभिर्मिभ्रात्रातिथिभिः सह संयोगंप्राप्स्यसि यदि । यदि भूलोकेऽवस्थितिमिच्छसि तर्हि तत्र, यदि दिवि तर्हि तत्र वा, मित्रादिभिः सह सुखेन चिरकालमवस्थितिं प्राप्स्यसीत्यर्थः । इत्याशीः । एप प्रतिग्रहार्थं प्रसार्यमाणः प्रत्यक्षदृश्यो मम करोस्ति तस्मादत्र पाणौ पदत्रयदानसंबन्धि भुवनं जलं वितर देहीति । अथच-क्षित्यास्तले पाताललक्षणे दिवि रमणीयत्वात्स्वर्गे भोगिभिः सर्पौर्ध्रियमाणो वध्यमानः सन् चिरकालं वासं दुःखबहुलत्वाद्वसतिरूपं बन्धं बन्धनं प्राप्स्यसि । यद्वाचिरं जीवन् पाताले सर्पैः सह वासं बन्धनं चैष्यसि । यद्वा-सः क्रियमाणं वन्धनं ध्रियमाणो धारयन्सन् पाताले वासमेष्यसि वा । इवार्थो वा दिवि वेत्यर्थः । यथा सुखिभिः सह स्वर्गे तिष्ठन् संबन्धं प्राप्नोषि तथेदानीमेव पाताले सर्पैः सह संबन्धमेष्यसि । यद्वा-अदिवि स्वर्गव्यतिरिक्ते पाताले तृतीयपादार्थं स्वर्गात्सकाशात्त्वामस्वर्ग- रूपे पाताले पातयिष्यामीत्यर्थः । एष चक्रविक्षेपतत्परो मम करोस्ति, इन्द्राद्गृहीतं भुवनं त्रैलोक्यं देहि पुनस्तस्मै समर्पयेति । भुवनं वितरेत्यवतारप्रयोजनं सूच्यते । 'जीधनं भुवनं वनम्' 'विष्टपं भुवनम्-' इत्यमरः ॥