पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४२
नैषधीयचरिते

 जीयात् सर्वोत्कर्षेण वर्तताम् । एवंविधमतिशूरं दानशूरं च त्वां प्रति प्रणतोऽस्मीत्यर्थः। नियतमित्युत्प्रेक्षायां वा । रुषा नियतं रुषेवेत्यर्थ इति वा । अथ च-या स्वैरिणी अत एव बहुभिर्जारैर्भुक्ता सती तद्भर्त्रा कोपेन करचरणादिसंधिषु पृथक्छेदेन तत्कालं नवानि प्रत्यग्राणि खण्डितानि यस्यास्तादृशी कृतानां खण्डानामग्निसंस्कारनिवारणाद्धेतोः काकादिभिः पक्षिभिर्भक्षितां कुर्वतो भर्तुर्युक्तकारिता सर्वैः कीर्त्यते । 'स्वैरिणी पांसुला समा' इत्यमरः॥

कार्तवीर्यभिदुरेण दशास्ये रैणुकेय भवता सुखनाश्ये ।
कालभेदविरहादसमाधिं नौमि रामपुनरुक्तिमहं ते ॥ ६८ ॥

 कार्तवीर्येति ॥ हे रैणुकेय रेणुकापुत्र, कार्तवीर्यभिदुरेण यदीयकारागारे निबद्धोरावणोपि बहूनि वर्षाणि अतिष्ठत्, तं कार्तवीर्यं सहस्रार्जुनं हतवता भवता दशास्ये सुखेन क्लेशरहितमनायासेन नाश्ये हन्तुं शक्ये सति कालभेदस्यं विरहादुभयोरवतारयोरेककालावस्थानत्वादसमाधिं परिहाररहितां मनुष्यावतारेण क्षत्त्रियेण त्वयैव रावणे हन्तुं शक्ये सति मनुष्यावतारेण क्षत्त्रियेण दाशरथिना रामेण विधेयान्तराभावादहं तस्मिनेव काले किमर्थमवतीर्णमिति वक्तुमशक्यत्वात्प्रयोजनाभावादहं ते रामपुनरुक्तिं दाशरथिरूपां जामदग्न्यरूपां वा नौमि स्तौमि । अन्यत्र तु पुनरुक्तेः कार्यभेदात्कालभेदाद्वा परिहारः कर्तुं शक्यते । वीप्सायामप्येककालप्रयुक्तस्यापि शब्दस्य भयादसंभ्रमादिना परिहारोस्त्येव । अत्र तु पूर्वेणैवोत्तरावतारकार्यस्यापि कर्तुं शक्यत्वात्कार्यभेदाभावाञ्च परिहारो नास्तीत्यर्थः । स्वतन्त्रस्य तव केनाप्यनुपयोगः कर्तुं न शक्यते इति भावः । जामदग्न्यस्य मानुषत्वेपि दैवज्ञान(भाव)स्य तथैव तद्भावात्, देवाञ्चवध्यत्वस्य रावणेन वृतत्वात्, तस्य तेन हन्तुमशक्यत्वात् , रावणवधपर्यन्तं च श्रीरामस्य दैवज्ञानाभावान्मानुषत्वेन तेनैव हन्तुं शक्यत्वात्कार्यभेदादेकस्मिन्नपि कालेऽवतारान्तरस्य युक्तत्वात्सूक्ष्मः परिहारोऽस्त्येव तथापि स्थूलदृष्ट्या परिहाराभाव उक्त इति शेयम् । नर्मदायां जलक्रीडां कुर्वता सहस्रार्जुनेन रावणः कारागारे निक्षिप्त इतीतिहासः। रैणुकेयेति क्षत्रियत्वसूचनम् । अपत्यार्थे 'स्त्रीभ्यो ढक्'॥

 [१]थ दशभिः श्लोकैर्दाशरथिं रामं स्तौति-

हस्तलेखमसृजत्खलु जन्मस्थानरेणुकमसौ भवदर्थम् ।
राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥६९ ॥

 हस्तेति ॥ भो राम दाशरथे, असौ विधाता भवदर्थं त्वाद्दशोत्तमशिल्पनिर्माणार्थं जन्मस्थानं रेणुका एकवीरा यस्य तादृशं रामं प्रथमं त्वदपेक्षया आद्यं जामदग्न्यं खलु निश्चितं हस्तलेखमेवासृजत् चक्रे । त्वन्निर्माणार्थं जामदग्न्यं हस्ताक्षराभ्यासमेवाकरोदित्यर्थः । खल्विवार्थों वा । हस्तलेखमिव चक्रे । किंभूता-अधरीकृता एतादृशनिर्माणासमर्थत्वान्निहीनाः कृतास्ते ते प्रसिद्धा लेखा देवा इन्द्रादयो दक्षप्रभृतयोऽष्टौ प्रजा-


  1. सुखावबोधायां तु पूर्वश्लोकव्याख्यायाम् 'अथैकादशभिः श्लोकैर्दाशरथिं स्तौति-' इत्यभिहितम् ।