पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४३
एकविंशः सर्गः।

पतयो वा येन तादृशः । अथवा-अनधराः स्वर्गस्था अप्यधराः कृता भूमाववतारितास्ते ते हनुमत्सुग्रीवादिरूपा इन्द्रादयो देवा येन सः। प्रथमस्यैव हस्तलेखरूपेण निहीनत्वं नतु द्वितीयस्येत्यत्रोक्तम् । प्रथममेवाद्यमेव रामं न तु द्वितीयं त्वामिति वा । उत्तमशिल्पनिर्माणार्थं हि हस्तलेखपूर्वं क्रियते । निहीनाः कृतास्ते तेऽतिप्रसिद्धा लेखका लिपिकरा येन स इति वा । अक्षराभ्यासेऽप्येवं क्रियते । जन्मस्थाने रेणुघृष्टेष्टकादिचूर्णरूपः पांसुर्यस्यैतादृशं हस्तलेखम् । (अधरीकृततत्तल्लेखकः) 'शेषाद्विभाषा' इति कप्॥

उद्भवाजतनुजा[१]दज कामं विश्वभूषण न दूषणमत्र ।
दूषणपशमनाय समर्थं येन देव तव वैभवमेव ॥ ७० ॥

 उद्भवेति ॥ हे अज जन्मरहित श्रीरामचन्द्र, अजस्य रघुपुत्रस्य तनुजाद्दशरथात्सकाशात् कामं स्वेच्छया उद्भवोत्पद्यस्व । भो विश्वभूषण जगदलंकारभूत, अत्र दशरथादपि जन्मविषये, अजस्यापि जन्मविषये दूषणं दोषलेशोऽपि नास्ति । यस्य पितामहोऽप्यजो नोत्पन्नः, तत्पुत्रः स्वपिता कुतस्तरामुत्पन्नः, तत्पुत्रपुत्रः स्वयं कुतस्तमामुत्पत्स्यते, तथा स्वयमप्यजः कथं जायते इत्याशङ्कायां स्वेच्छामात्रविलसितमित्याशङ्कापरिहारः । 'ब्रह्मैव हि स्वाविद्यया संसरति, मुच्यते च' इति न्यायात् । विश्वभूषणस्य तव दूषणरूपत्वाभावादपि दूषणलेशोऽपि तव नास्तीत्यर्थः । अथच-अजतनुजादजस्योत्पत्तिर्युक्तैव । अजो हि छगलस्तस्य पुत्रोप्यज एव जातिनामत्वादजशब्दस्येत्यपि दूषणाभावः। दूषणाभावे हेत्वन्तरमप्याह-येन कारणेन हे देव,श्रीराम, तव वैभवमेव प्रभाव एव दोषाणां प्रकर्षेण शमनाय नाशाय समर्थं । यत्स्मरणादिवैभवाद्वान्येषामपि भक्तानां दोषा नश्यन्ति, तत्स्वरूपे दोषलेशसंस्पर्शोपि कथंकारं स्यात्, अपितु न कथंचिदित्यर्थः । अथच-दूषणाख्यराक्षसविनाशाय तवैव सामर्थ्यं यतः, तस्मादत्र तवैवोत्पत्तौ सत्यां दूषणाभावो युक्त एवेति छलम् । अथच-परशुरामे सत्यपि तस्मिन्नेव काले त्वं दशरथात्सुखेनोत्पद्यस्व, अत्र तवोत्पत्तौ विषये दूषणं पुनरुक्तदोषो नास्ति, यतो दूषणादिरावणान्तराक्षसविनाशाय तवैव सामर्थ्यं, नतु परशुरामस्येत्यत्र दूषणशब्द उपलक्षणपरः। तस्मादेककालीनत्वेपि कार्यभेदान्न पुनरुक्तिदोष इत्यर्थः । एतेनावतारप्रयोजनमुक्तम् । 'अनुकामम्' इति पाठे-कामं लक्षीकृत्य यथेच्छमित्यर्थः ॥

नो ददासि यदि तत्त्वधियं मे यच्छ मोहमपि तं र[२]घुवीर।
येन रावणचमूर्युधि मूढा त्वन्मयं जगदपश्यदशेषम् ॥ ७१ ॥

 नो ददासीति ॥ हे रघुवंश्यानां मध्ये वीर ईश्वरतम श्रीरघुनाथ, त्वं तत्त्वधियं मोक्षोपयोगिनमात्मतत्त्वसाक्षात्कारं यदि मे माह्यं नो ददासि तर्हि तं मोहमपि तां विशिष्टां भ्रान्तिमेव यच्छ देहि । तं कम्-येन मोहेन भयेन संजातभ्रान्तिविलासेन बुद्धिमूढा


  1. 'अनकामम्' इति पाठमङ्गीकृत्य 'द्वौ नञौ प्रकृतमर्थं गमयतः' इति न्यायेन यथेच्छमिति यद्व्याख्यातम्,
    तत्पाठापरिज्ञानविलसितत्वादुपेक्ष्यम् इति सुखावबोधा
  2. घुवत्सेति ठो जीवातुसंमतः