पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४४
नैषधीयचरिते

रावणचमूरशेषं सकलं जगत् त्वन्मयं श्रीरामचन्द्ररूपमपश्यत् । रावणसेनया च मोहेन जगद्रामात्मकं दृष्टमिति सर्वपुराणे ॥

आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्वि:।
लङ्धितश्च भवता किमु न द्विर्वारिराशिरुदकाङ्कगलङ्कः ॥ ७२ ॥

 आशयेति ॥ हे श्रीरामचन्द्र, भवता महीप्रभवा कृष्याद्युपायैर्भूलोकोत्पन्ना श्री राज्यलक्ष्मीः, अथच-भूमेरुत्पन्ना लक्ष्म्यवताररूपा जानकी, क्रमेण पितुराशया च अज्ञेभ्यो भिया चमूर्खजनापवाभयेन चद्विर्द्धिवारमहीयत त्यक्ता । वनवासाङ्गीकाराद्राज्यलक्ष्मीः, जनापवाझ्याच वह्नौ विशुद्धाऽपि सीता त्यक्तेत्येवं द्विप्रकारं त्यक्तेत्यर्थः । एवं पितुराशाकारी लोकापवादभीरुश्च कोपि नास्तीति भावः । चावन्योन्यसमुच्चये । तथा-वारिराशिः, अरिराशिर्वा द्विर्विवारं द्विधा च न लङ्घितः किमु, सेतुं वाद्ध समुद्रोपि लङ्घित एव, तथा-रावणादिः शत्रुसमूहोऽपि पराभूत एव । वा चार्थ इवार्थो वा, अरिराशिश्चारिराशिरिव वा । गन्धनार्थाद्वातेः क्किपि वातीति वाः, स चासावरिराशिश्च सकलो वैरिसंघ इत्यर्थः । किंभूतः-उदकाङ्कगा जलमध्यगा लङ्का यस्य । यदीयजलमध्ये लङ्कास्तीत्यर्थः । अरिराशिरपि-समुद्रजलमध्यवर्तिनी लङ्का यस्य । समुद्रपक्षे यस्येत्यस्योदकेन संबन्धः, अरिपक्षे तु लङ्कायाः एतावान्विशेषः । उत्कृष्टमकं दुःखं यस्यास्तादृशी अङ्कगा लङ्का यस्येति वा । सागरस्यापि बन्धनाद्रावणस्यापि वधाच्चैतादृशो महाप्रभावः शूरतरश्च त्वदन्यः कोपि नास्तीति भावः॥

कामदेवविशिखैः खलु नेशं मार्प[१]यज्जनकजामिति रक्षः।
दैवतादमरणे वरवाक्यं तथ्ययस्वमपुनाद्भवदस्त्रैः ॥ ७३ ॥

कामेति ॥ रक्षो रावण इतीव हेतोर्दैवतादमरणे मरणाभावविषये दैवाद्धेतोर्न मरिप्यसीति ब्रह्मणो वरवाक्यं तथ्ययत् सत्यं कुर्वत् स्वमात्मानं भवदस्त्रैरपुनाद् धुतकल्मषं चकार । इति किम्-जनकजां सीतां रामायार्पयद्दददहं रक्षः कामदेवस्य मोहनशोषणादिभिर्विशिखैः खलु निश्चितं मा नेशं तद्विरहसंतापवशान्मृतो मा भूवमिति। सीताप्रत्यर्पणे कामस्य देवत्वात्तद्वाणैर्मरणे वरवाक्यमसत्यं स्यादितीच तामददद्वरवाक्यसत्यत्वार्थं मानुषावतारकामरूपभवद्वाणैरात्मानं नाशितवानित्यर्थः। कामबाणाच्छरीरविनाशमात्रं त्वद्वाणात्तु मरणे संसारहेतुनिःशेषकल्मषक्षय इति महान्विशेषः 'अपुनात्' इत्यनेन सूच्यते । नेशम्, माङयोगादडभावः । तथ्ययत् 'तत्करोति-' इति ण्यन्ताच्छता॥

तद्यशो हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि ।
नामशेषितससैन्यदशास्यादस्तमाप यदसौ तव हस्तात् ॥ ७४ ॥


  1. मार्पयमिति पाठे जनकजामित्यहं मापर्यं नो ददामि । इतीति किम्-कामदेवविशिखैर्मा नेशमिति । सदृश (मध्य) पातिनो माङ उभयसंबन्धेनं व्याख्येयम् इति सुखोवबाधा।