पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४६
नैषधीयचरिते

क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकमसृजाकविराद्यः।
स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं प्रबबन्ध ॥ ७७॥

 क्रौञ्चेति ॥दैवी वाक् येन भुवंप्रति प्रथममानीता स आद्यः प्रथमः कविर्वर्णको यो वाल्मीकिः क्रौञ्चयोः पक्षिविशेषयोर्मध्येरिरंसावेकस्मिन् व्याधेन हतेऽन्यस्य दुःखं वीक्ष्य तिर्यग्योनेरपि तस्य दुःखं दृष्ट्वा उत्पन्नया शुचा शोकेन हेतुना ‘मा निषाद प्रतिष्ठां त्वम्-' इत्यादिकं श्लोकमसृजत् । स कविस्त्वयि उत्पन्नः करुणारसो यस्य सीताविरहविह्वलमहानुभावभवद्दर्शनोत्पन्नशोक इव श्लोकानां सिन्धुं सागरभूतं चतुर्विशतिसहस्रमितं रामायणाख्यं काव्यमुचितं योग्यं प्रबबन्ध । तिर्यग्योनिविषये शोकेन येन श्लोकः कृतः, तस्य उत्तमपुरुषविषये महाकाव्यनिर्माणमुचितमेव । अथ च--त्वया सिन्धुर्बद्धः, अयमपि त्वदेकचित्तः सिन्धुं बबन्धेत्युचितम्। परित्यक्तसर्वसङ्गो मुनिरपि त्वद्वर्णनां कृतवानेतादृशः परपुरुषोसीति खल्वित्यर्थः ॥

विश्रवःपितृकयाप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः ।
किं चकर्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा ॥७८॥

 विश्रव इति ॥ हे रघुनाथ, इति हेतोरुचितं जानाति स उचितकारी त्वं चतुर्धावतीर्णत्वाल्लक्ष्मणलक्षणेन स्वीयेनैव वपुषा शूर्पणखायाः श्रवसी कणैं किं वा न चकर्तिय कर्तितवान, अपितु कर्तितवानेव । इति किम्-विश्रवा मुनिः पिता यस्याः, अथ च-कर्णरहितः पिता यस्यास्तस्याः शूर्पणखायाः सश्रवस्त्वं सकर्णत्वमातुमनर्हमयोग्यमिति । स्त्रीवधस्यानौचित्यात्कर्णच्छेद एवोचितो यतः, अकर्णपितृकाया अकर्णत्वस्यौचित्यात्कणैं लक्ष्मणेन कर्तयामासिथेत्येव विविधः समुचितकारी महाप्रभावोसीति भावः । वा इवार्थो वा । इतीव हेतोरिति योजना । विश्रवाःपितृकया, 'नद्यृतश्ज' इति कप् । शूर्पणखा 'पूर्वपदात्संज्ञायाम्-' इति णत्वम् । नखस्य स्वाङ्गत्वेपि 'नखमुखात्संशायाम्-' इति कीबभावः । अन्वर्था चेयं संज्ञा ॥

 नवभिः श्लोकैः श्रीकृष्णं वर्णयति-

ते हरन्तु दुरितव्रततिं मे यैः स कल्पविटपी तव दोर्भिः।
छद्मयादवतनोरुदपाटि स्पर्धमान इव दानमदेन ॥ ७९ ॥

 त इति ॥ कंसादितत्तद्दैत्यमारणरूपछद्मना यादवसंद्मा तनुर्यस्य, अथ च-छद्म याति छद्मयाः एवंभूतश्चासौ दवतनुश्च मायावान् कंसादिवंशवनवह्निरूपशरीरश्च, श्रीकृष्णरूपस्य तव यैर्दोभिर्भुक्तिमुक्तिप्रदैश्चतुभिर्हस्तैः सोऽतिप्रसिद्धः कल्पविटपी कल्पितफलदानसमर्थः पारिजातवृक्ष उदपाटि उन्मूलितः। किं कुर्वन्निव-मादृशः कल्पितदानसमर्थः कोपि नास्त्येवेति दानस्य मदेन दर्पेण तैर्भुजैः सह स्पर्धमान इव । ते बाहवो मे दुरितानां व्रततिं लतां दैन्यसंतति हरन्तु उन्मूलयन्तु । ये पारिजातलक्षणमहावृक्षोन्मूलने समर्थास्तेषां लतोन्मूलने सुतरां सामर्थ्यम् । कपटदावानलदेहस्य च भु-