पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४९
एकविंशः सर्गः।

[१] तावका [२]परतनोः सितकेशस्त्वं हली किल स एव च शेषः ।
साध्वसाववतरस्तव धत्ते [३] तज्जरच्चिकुरनालविलासः॥८५॥

 तावकेति ॥ हे कृष्ण, हलीलाङ्गलधरो बलभद्रः स एव च शेषोऽनन्तस्त्वमेव । शेषावताररूपोपि बलभद्रो भवानेव, नतु स त्वत्तो भिन्न इत्यर्थः । त्वं बलभद्गः स एव शेषः । त्वत्तो हली न भिद्यते, हलिनश्च शेषो न भिद्यते इति वा । यतः-कायस्य संबन्धाज्जरसा सितकेशो धवलितकचः किलेल्यागमे विष्णुपुराणादौ च यदुक्तम्-'उज्जहारात्मनः केशौ सितकृष्णौ ततः प्रभुः' इति । न विद्यते परोत्कृष्टान्या यस्याः सा तावकी अपरा तनुस्त्वत्संबन्धिनी सर्वोत्कृष्टा सत्त्वमूर्तिस्तस्याः सितकेशः श्वेतकेशरूपो हली तवावतारोंऽशावताररूपोऽसौ हली त्वं किल । त्वदवयवभूतकेशरूपत्वात्तस्य । स च हल्येव शेष इति वा । शेषरूपबलदेवलक्षणोऽसाववतरो मूर्तिः । अत एव तस्या भवदीयापरतनोर्जरतो जरसा धवलीकृतस्य चिकुरनालस्य केशदण्डस्य विलासं वर्णसारूप्यं साधु यथा तथा धत्ते । अतिगौरो बलदेवस्त्वदीयापरतनुधवलकेश इव भातीत्यर्थः। शेषस्यापि दीर्घत्वधवलत्वाभ्यां जराधवलदीर्घकेशसारूप्यधारणं युक्तमेव । 'कारणगुणा हि कार्ये गुणानारभन्ते' इति न्यायाच्च युक्तमेव । अंशावतारो बलभद्रः, इति चोक्तम् । अत्र श्वेतकेशः सहज एव, नतु जरायोगात् । इति वा । यतो हरिर्नित्यतरुण इति पुराणादिप्रसिद्धिः । वस्तुतस्तु-कस्य ब्रह्मसुखस्येशै सुखरूपावित्यर्थः। प्रकाशकत्वेन सत्त्वस्य सितशब्दवाच्यत्वात्, मोहकत्वेन च तमसः कृष्णशब्दवाच्यत्वात्सितकृष्णौ सत्त्वतमोगुणद्वयात्मकावेताववतारौ भूभारोत्तारणार्थं प्रभुरादिनारायणः स्वस्मात्प्रकटीचकारेति विष्णुपुराणस्थसितकृष्णपदस्यार्थः । 'कृष्णस्तु भगवान्स्वयम्' इति भागवतवचनेन कृष्णस्तु लीलाविग्रहधारी परब्रह्मैव 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः' इति भगवद्वचनात् । बलभद्रस्त्ववतारः 'रामो रामश्च रामश्च' इति वचनात् । अन्यथा बलभद्रस्य सत्त्वमूर्तित्वम् , कृष्णस्य तमोगुणमूर्तित्वमापद्येत, । नच तथास्तीति बलभद्रस्य तमःप्रधानत्वदर्शनादित्याशयः। 'शितिकेश:-' इति पाठे-'शिती धवलमेचकौ' इत्यभिधानात्त्वदीयपुराणतनोः संबन्धी शितिकेशः श्यामकेशरूपस्त्वं, हली च धवलकेशरूपः, स एव च हली शेषः बलभद्रः शेषावतारः, इति पुराणादौ । स त्वदीयधवलकेशविलासं धत्ते तत्साधु । कृष्णस्य कृष्णवर्णत्वाद्वलिनश्चातिगौरत्वाद्यथाक्रमं श्यामसितकेशत्वमौत्प्रेक्षिकत्वेनैव व्याख्येयमित्यलमतिविस्तरेण । 'तावकापर-' इति पाठः साधीयान् । यतः 'युष्मदस्मदोः-' इत्यणि तवकादेशे वृद्धौ च 'वृद्धिनिमित्तस्य-' इत्यादिना पुंवद्भावप्रतिषेधे प्रसक्तेऽपि कर्मधारयत्वात् 'पुंवत्कर्मधारय-' इति प्रतिप्रसवात्पुंवद्भावः । अवतरः पूर्ववत् ॥

हृद्यगन्धवहभोगवतीशः शेषरूपमपि बिभ्रदशेषः ।
भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् ॥ ८६ ॥


  1. अयं श्लोको जीवातौ नास्ति ।
  2. तावकीपरतनोः' इति पाठः पुंवद्भावप्रतिप्रसवसूत्रास्फुरणविलसितस्वादुपेक्ष्यः' इति सुखावबोधा ।
  3. 'त्वजरदिति पाठे-पुराणपुरुषस्य तव जरन् यश्चिकुरनालः इति व्याख्येयमिति सुखावबोधा।