पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५४
नैषधीयचरिते

इति दशविधं पापम् । चक्षुस्त्वकूश्रोत्रवाणजिह्वापाणिपादपायूपस्थमनोजन्यं वा । दशसु मासेषु भवत्वाद्गर्भवासलक्षणं दुःखमिति वा । 'कल्कः प्रापाशये पापे' इति विश्वः॥

देहिनेव यशसा भ्रमतोव्यार्थां पाण्डुरेण रणरेणुभिरुच्चैः ।
विष्णुना जनयितुर्भवताभून्नाम विष्णुयशसश्च सदर्थम् ॥ ९३ ॥

 देहिनेति ॥ विष्णुयशसस्तन्नामकस्य जनयितुः पितुः विष्णुरिति नाम भवता च त्वयैव कृत्वा सदर्थं सान्वयमभूत् । किंभूतेन भवता-रणरेणुभिरुच्चैः पाण्डुरेण धवलतरेण, तथा-दुष्टगवेषणार्थमुर्व्यां भ्रमता विष्णुना व्यापकेन विष्णुसंञकेन च पाण्डुरत्वाद्यापित्वाच्च देहिना शरीरधारिणा यशसेव यशोरूपेण विष्णु व्यापकं यशो यस्य त्वया पुत्रेणेति यावत् । तस्य तव पितुर्नाम सान्वयमभूत् , जातप्रायमेवेति भाविन्यपि भूतवदुपचारः। अतीतकलियुगान्तावतारापेक्षयाऽभूदिति निर्देशो वा । पूर्वं तु डित्था- दिवत्तनामाभूत् , त्वय्युत्पन्ने तु तत्सार्थकमभूदित्यर्थः॥

दत्तात्रेयं स्तौति-

सन्तमट्वयमयेऽध्वनि दत्तात्रेयमर्जनयशोजनबीजम् ।
नौमियोगजनितानघसंज्ञं त्वामलर्कभवमोहतमोर्कम् ॥ ९४ ॥

 सन्तमिति ॥ अहं दत्तात्रेयनामानं त्वां नौमि । किंभूतम्-अद्वयमयेऽध्वनि अद्वैतमार्गे ऐकात्म्यवादे सन्तं वर्तमानं, तथा-अर्जुनस्य कार्तवीर्यार्जुनस्य यशसो यदर्जनं तस्य बीजं मूलम् । कार्तवीर्येणाराधितो दत्तात्रेयस्तव यशो लोकव्यापि भविष्यतीति वरं दत्तवान् । 'अर्जुन-' इति पाठे-अर्जुनयश एवार्जुनो वृक्षः, तस्य बीजम् । वृक्षस्योत्पत्तिर्वाजादेव युक्ता । अथच -अर्जुनं धवलं यशो यस्यैवंविधोऽर्जुनः कार्तवीर्यस्तस्य बीजम् । तथा-अष्टाङ्गयोगेन जनितोत्पादिता पापादिराहित्यादनघ इत्यपरा संज्ञा यस्य । तदा हि देवैर्योगबाहुल्यादनघेति संज्ञा कृता । तथा- -अलर्कनाम्नः शत्रुध्वजम- दालसापुत्रस्य राज्ञो भवमोहो ममतादिरूपः संसारमोहः स एव तमोऽन्धकारः तस्य विनाशहेतुत्वादर्कस्तम् । योगमार्गोपदेशेन तस्य मोहं चिच्छेदेति पुराणकथा ॥

 एवं दशावतारान्निर्वर्ण्य भक्त्यतिशयेन पुनरपि कियतस्तानेवावतारांस्त्रिविक्रमं हरि- हरौ बालमुकुन्दं च संक्षेपेण चतुर्विंशत्या श्लाकैर्वर्णयति-

भानुसूनुमनुगृह्य जय त्वं राममूर्तिहतवृत्रहपुत्रः ।
इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्णनिहतार्कतनूजम् ॥ ९५ ॥

 भानुसूनुमिति ॥ हे विष्णो, भानुसूनुं सूर्यपुत्रं सुग्रीवमनुगृह्य वालिहतां तद्वधूं तारां तस्मै दत्त्वा राज्याभिषेकद्वारा कृतार्थीकृत्य राममूर्त्या रामावतारेण हतो मारितो वृत्रहणः (घ्नः) इन्द्रस्य पुत्रो वाली येन स त्वं रामो जय सर्वोत्कर्षेण वर्तस्व । नमस्योऽसीत्यर्थः। तथा--भोः कृष्णावतार, अहं इन्द्रनन्दनस्यार्जुनस्य सपक्षं मित्रभूतम्, अत