पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५५
एकविंशः सर्गः।


एव-निहतो मारितोऽर्कतनूजो येनेति वा । यो भानुसूनुमनुगृह्णाति स निहतार्कतनूजः कथम् । तथा-यो हतेन्द्रपुत्रः स इन्द्रपुत्रमित्रं कथमिति विरोधार्थोऽपिशब्दः । निग्राह्यानुग्राह्ययोस्तत्पुत्रयो रामकृष्णावतारयोश्च भेदात्तु विरोधपरिहारः । एताहविरुद्धचरितत्वाद्दुर्विञेयः परमपुरुषोसीति भावः ॥

वामनादणुतमादनु जीयास्त्वं त्रिविक्रमतनूभृतदिक्कः।
वीतहिंसनकथादथ बुद्धावल्किना हतसमस्त नमस्ते ॥ ९६ ॥

 वामनादिति ॥ हे विष्णो, अणुतमाद् ह्रस्वतमशरीराद्वामनावतारादनु पश्चात्रिविक्रमावतारस्य तन्वा शरीरेण त्रिविक्रमावताररूपया वा तन्वा भृता व्याप्ता दिशो येन स त्वं जीयाः सर्वोत्कर्षेण वर्तस्व । तथा-वीता निवृत्ता हिंसनकथा प्राणिवधवार्तापि यस्मात् एवंभूताद्बुद्धावतारात्, अथ पश्चात् कल्किना दशमावतारेण कृत्वा हतं मारितं कलिमलदूषितं समस्तं प्राणिजातं येन तादृश विष्णो, ते तुभ्यं नमः । यो ह्यणुतमः स एव तनूभृतद्दिक्को व्यापकदेहः कथम् । तथा-यश्च वीतहिंसनकथः स एव हत. समस्त इति विरोधः, अवतारभेदेन परिहारः। दुर्विज्ञेयचरितोसीति भावः । वामन त्रिविक्रमौ वर्णितौ॥

मां त्रिविक्रम पुनीहि पदे ते किं लगन्नजनि राहुरुपानत् ।
किं प्रदक्षिणनकृद्धमिपाशं जाम्बवानदित ते बलिबन्धे ॥ ९७ ॥

 मामिति ॥ हे त्रिविक्रम, त्वं मां पुनीहि । तथा-गगनव्यापिन्यूर्ध्वाकृते ते पदे वि ष्णुपदे लगन् नक्षत्रमालामध्यवर्ती श्यामरूपो राहुरुपानद् अजनि किं पादरक्षिकैवः जाता किम् । एतावदतिमहच्छरीरं धृतम्, यस्य चरणस्थाने गगनस्थो राहुरुपानदिव जात इत्यर्थः । सापि हि श्यामा, चरणे च लगति । तथा-प्रदक्षिणनं प्रदक्षिणाख्यं पञ्चदशमुपचारं कुर्वन् जाम्बवान् ऋक्षराजो ब्रह्मावतारो बलिनिबन्धननिमित्तं ते तुभ्यं भ्रमिपाशं परिभ्रमणरूपं वलयाकारवेष्टनमेव पाशं बन्धनरज्जुमेवादित दत्तवान् किम् । यो हि कंचिद्वन्दुमुपक्रमते तस्मै केनचित्पाशो दीयते । यद्यपि देवेन बलिर्वाग्बन्धमेव प्रापितः, नतु रज्जवादिबन्धम् । तथापि लोके बद्ध इति प्रसिद्धिवशाद्वन्धशब्दच्छलेन कविः पाशशब्दं प्रायुङ्क्त्त । जाम्बवान् किल तदा त्रिविक्रमस्य षोडशोपचार पूजामकृतेति प्रवादः । अत्रापि त्रिविक्रमो वर्णितः । 'बन्ध्रे' इति पाठे तृन्नन्ताद्वन्धेश्चतुर्थी 'ते' इत्यस्य विशेषणम् । 'बन्धः' इति तस्मादेव संबुद्धिः॥

अर्धचक्रवपुषार्जुनबाहून्योऽलुनात्परशुनाथ सहस्रम्।
तेन किं सकलचक्रविलूने बाणबाहुनिचयेऽञ्चति चित्रम् ॥ ९८ ॥

 अर्धेति ॥ यो जामदग्नयो भवान् चक्रस्यार्धं समो भागस्तस्यैव वपुः स्वरूपं यस्य तदाकारेण परशुना कृत्वा सहस्रम् अर्जुनबाहून् शीघ्रमेवालुनात् चिच्छेद । तेनैव भवता सकलेन सुदर्शनचक्रेण विलृने बाणासुरस्य बाहुनिचये विषये लोकश्चित्रमाश्चर्य-