पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५६
नैषधीयचरिते

मञ्चति किम्, अपितु न प्राप्नोति । अथच-किमिति प्राप्नोति, अपितु वृथैव तत् । येन पूर्वमेकस्य बाहुसहस्रं छिन्नं तेनैवान्यस्य बाहुसहस्रेछिन्ने न किंचिच्चित्रम् , तत्र क्लृप्तशक्तित्वादित्यर्थः । येन चार्धेन चक्रेण बाहुसहस्रं छिन्नम्, तेनैव समग्रेण चक्रेण बाहुसहस्रे छिन्ने सुतरां न चित्रमित्यर्थः । परशुरामकृष्णौ वर्णितौ ॥

पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिति वक्षि ।
चेतनाःस्थ किल पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः॥९९॥

 पाञ्चजन्यमिति ॥ हे विष्णो, त्वं वामकरेण पाञ्चजन्यनामानं शङ्खमधिगत्य धृत्वा, तथा-अपां (जलानां) च जन्यमुत्पाद्यं कमलं च दक्षिणकरेण धृत्वाऽसुरान्दैत्यानिति वक्षीव प्रतिवदसीव । इति किम्-हे दैत्याः, अचेतनोऽप्ययं शङ्खो मयि मुक्तविरोधः किं न, अपितु त्यक्तविरोध एव । किल यस्मात्पाञ्चजन्यत्वे सत्यपि अपाञ्चजन्यत्वमङ्गी. करोति । यूयं पश्यत, यतः सचेतनाः स्थ चैतन्ययुक्ता वर्तध्वे, कस्मान्मयि विषये विरोधं कुरुथेति । अचेतना अपि मयि विरोधं नाचरन्ति, किमुत मरणभीताः सर्वज्ञाः । तस्मान्मयि विरोधं मा स्म कृढम् । शब्दत एव विरोधः । अर्थद्वयेन तत्परिहारः । अथवाअचेतन एव मयि मुक्तविरोधः शङ्खवत् ! यूयं तु सचेतनाः स्थ, तस्मान्मयि विरोधमाचरथेति शङ्खवद्भवतोऽपि यावदचेतनान्न कुर्वे, तावद्विरोधो न त्यज्यत इति,अथवाअचेतनोऽपि शङ्खो मयाद्यापि न मोच्यते, सचेतनास्तु शङ्खादयो भवन्तः कथंवा मया मोच्येरन् । अपितु मारयिष्याम्येवेति वक्षीत्यर्थः । अधिगत्य च अधिगत्यैवेति वा पक्षे संबन्धः । अचेतनोऽपि मयि मुक्तविरोधः किं न पश्यतेति वा । अपामिति कर्तरि 'कृत्यानाम्' इति षष्ठी॥

तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव ।
स्थीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च ॥ १० ॥

 तावकेति ॥ कमलया लक्ष्म्या लसन्ती पत्रपुष्पफलमयी वनमाला यस्मिंस्तस्मिंस्तावकोरसि श्रीफलस्य विल्ववृक्षस्य द्विफलशाखिकयेव फलद्वययुक्तया ह्रस्वकोमलशाखयेव स्थीयते । किंभूतया श्रिया-तवाजस्रमनवरतं स्पर्श आश्लेषस्तेन कण्टकितया संजातसात्त्विकरोमाञ्चया, तथा-उत्कुचया चोन्नतपीवरस्तनया च । यत्र हि वनानां माला पङ्तिर्विलसति तत्र सकण्टकया फलसहितया च बिल्वशाखया स्थीयते, तथात्रापि लसद्वनमालत्वाद्विशिष्टया लक्ष्म्या विशिष्टविल्वशाखयेव स्थीयते इत्युपमोत्प्रेक्षा वा। शाखिका, अल्पत्वे ह्रस्वत्वे वा कन् ॥

त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः ।
आननं च नयनायितबिम्बः सेवते कुमुदहासकरांशुः ॥ १०१॥

 त्यज्यत इति ॥ जलजेन शङ्खेन, अथच-पद्मेन, ते करः कदाचिदपि न त्यज्यते सश- ङ्खचक्रगदापद्मत्वात्तवेत्यर्थः । तत्रोत्प्रेक्षते-उच्चैरत्यन्तं सुभगभूयं त्वत्करकमलरक्तिमा