पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९५९
एकविंशः सर्गः।


निवृत्तिश्चेति द्वयं प्रयोजनं सर्वस्य । ततश्च-इष्टप्राप्तावनिष्टनिवृत्तेरन्तर्भावं मन्यमानः श्रीहर्षः 'आप्तकाम' इत्येव संबुद्धिमकृतेति ज्ञेयम् ॥

जाहूवीजलजकौस्तुभचन्द्रान्पादपाणिहृदयेक्षणवृत्तीन् ।
उत्थिताब्धिसलिलात्त्वयि लोला किं स्थिता परिचितान्परिचिन्त्य ॥

 जाह्नवीति ॥ अब्धिसलिलात् उत्थिता निर्गता लोला स्वभावतश्चपलापि लक्ष्मीः यथाक्रमं जाह्नवी च जलजं पाञ्चजन्यश्च कौस्तुभश्च चन्द्रश्च तान् पादे पाणौ हृदये ईक्षणे वामनेत्रे च वृत्तिरवस्थानं येषामेवंभूतान्परिचितान्समुद्रैकाश्रयतया सहवाससंजातस्ने. हान् सुहृदस्त्वयि विष्णौ परिचिन्त्य विचार्य दृष्ट्वैव त्वयि स्थिता किम् । चाञ्चल्यं परि- त्यज्य त्वयि नित्यावस्थितिरभूत् किम् । जाह्नव्यादयो लक्ष्मीश्च तव सेवां कुर्वन्ति, एता- दृशः परमपुरुषोसीति भावः॥

वस्तु वास्तु घटते न भिदाना यौक्तनैकविधबाधविरोधैः ।
तत्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्त्वनिरुक्तिः ॥ १०८ ॥

 वस्त्विति ॥ हे विष्णो, घटपटादिवस्तुजातं यौक्तैर्युक्तिसंबन्धिभिर्युक्तिकृतैर्न्यायोत्थैर्नैकविधैर्वहुप्रकारैर्बाधैः साधारणदूषणैः तथा विरोधैर्ब्रह्माद्वैतप्रतिपादकसर्वोपनिषद्वाक्यवैपरीत्यरूपैरसाधारणदूषणैः, यद्वा-नैकविधान् भिन्नान् घटपटादीन् बाधन्ते इति नैकविधवाधास्तथाभूतविरोधैर्हेतुभिरिदमस्माद्भिन्नमित्येवं विशेषणत्वेन प्रतीयमानानां भिदानां वास्तु आधारो (वस्तु पदार्थो) न घटते न प्रयुज्यते । किंत्वभिन्नं ब्रह्माद्वैतमेव घटत इत्यर्थः । तर्हि भेदप्रतीतेः का गतिरित्यत आह-तदिति । तस्मादक्तहेतुभिर्भेदस्तद्विशिष्टं वस्तु वा न घटते तस्मादनिर्वाच्यानाद्यविद्यारूपेण त्वदीहितेन, अनिर्वचनीयत्वादिनातिप्रसिद्धेन त्वदीहितेन वा करणेन कर्तृणा वा विजृम्भितः प्रकटीभूतः कृतो वाविद्यमानोऽप्यारोप्यत्वेन प्रत्यायितः स स घटादिरूपो भेदो यस्य तादृशमेतद्वस्तुजातमित्येवं तत्त्वस्य प्रामाणिकस्यार्थस्य निरुक्तिनिर्वचनं निश्चितोक्तिः। अभेदर्शनोक्तयुक्तिशतवाधात्तत्तच्छ्रुतिविरोधाच्च तत्त्वतो वस्तुभेदाभावे प्रतिभासमानस्य च भेदस्य द्विचन्द्रवुद्धिवप्रामाणिकत्वे सकलमिदं जगदभिन्नमिति श्रवणमननादिक्रमेण संजातभवत्साक्षात्कारस्य सच्चिदानन्दघनस्त्वमेकः, नतु त्वदतिरिक्तं किंचिदिति वोधः समुदेतीति तत्त्वनिर्णय इति भावः। एतेन 'तत्त्वमसि' इत्याद्युपनिषदार्थोपि संगृहीत इति ञेयम् । योक्तेति संबन्धेऽण् । युक्त्यन्तरं ग्रन्थान्तरात्सुधिया बोद्धव्यम् । विस्तरभयादत्र न लिखितम् ॥

वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डुतनूजः ।
स्वं विमिश्रमुभयं न विविञ्चन्निर्ययौ स कतमस्त्वमवैषि ॥ १०९ ॥

 वस्त्विति ॥ किलेत्यागमे । हे विष्णो, मृकण्डुतनुजो मार्कण्डेयः बाह्यवत् बाह्ये त्रिजगति यथा वर्तते तथैव तवोदरे वर्तमानं विश्वं त्रैलोक्यसंबन्धि घटपटादि सर्वं वस्तु