पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६०
नैषधीयचरिते


दृष्ट्वा विशेषेण मिश्रमेकत्रैवोदरे द्वयोरपि स्थितत्वादविविक्तमुभयं पूर्वं बहिरन्तश्च वर्तमानत्वाद्विविधं स्वमात्मानं न विविञ्चन् अनिश्चिन्वन् 'बहिश्चरो योहमुदरं प्रविष्टः स कः, यश्च पूर्वमेवोदरे वर्तते स कः' इति भवन्मायोपबृंहितत्वाद्विशेषेणाजानन् स कतमो द्वयोरन्तर्बहिश्चरयोर्मध्ये क इति विवेक्तुमशक्नुवन् निर्ययौ । मायाबालको भवन्निश्वासेन सहोदरं प्रवेश्य तत्र च लोकत्रयं प्रदर्श्य मार्कण्डेयस्तस्य वक्त्राच्छनैर्विनिर्ग(मि)तः सकतम इति त्वमेवावैषि जानीषे नान्य इत्यर्थः । अयमितीहासो हरिवंशादवसेय इत्लम् । बालमुकुन्दरूपोपि त्वमेवासीति भावः । यद्वा यस्य तवोदरे बाह्यं सर्वं वस्तु दृष्ट्वा मार्कण्डेयो जठरस्थेन स्वेनैव विमिश्रमुभयं स्वमजानन्सन्निर्ययौ स कतमोऽनेकेष्ववतारेषु मध्ये स को वा विशिष्टस्तवावतार इति त्वमेव जानीषे, नान्यः कश्चित्त्वां जानाति स्वप्रकाशत्वादित्यर्थ इति व्याख्येयम् । अत्र बहुजातिपरिप्रश्नविषयत्वाडुतमच् ॥

ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्ध्नि विश्वमथ पत्युरहीनाम् ।
बालतां कलयतो जठरे वा सर्वथासि जगतामवलम्बः ॥ ११०॥

 ब्रह्मण इति ॥ भी विष्णो, स्थावरजङ्गमात्मकं विश्वं ब्रह्मणः परमात्मस्वरूपस्य तव शक्तिरूपायां सामर्थ्यरूपायां लतायां सृष्टेः प्राक् अस्तु वर्तताम् । 'सृष्टेः प्रागमूर्ते ब्रमणि विश्वं लीयते' इति पुराणोक्तिः। तथाच त्वन्मायालतायां विश्वं वर्तते अथ सृष्टयनन्तरं सृष्टं विश्वं त्वदंशस्य अहीनां पत्युः शेषस्य मूर्ध्नि वर्तताम् । प्रलये च संहारार्थं वालतां मायाशिशुत्वं कलयतोऽङ्गीकुर्वतस्तवैव जठरे चास्तु समस्तमास्तामित्येव सर्वथा सर्वप्रकारेण त्वं जगतामवलम्बोसि । वा समुच्चयार्थः । एतेन सृष्टिस्थितिलयकर्ता त्वमेवेति सूचितम् । 'अस्ति-' इत्यपि कचित्पाठः॥

धर्मवीजसलिला सरिदङ्घ्रावर्थमूलमुरसि स्फुरति श्रीः ।
कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव ॥ १११ ॥

 धर्मेति ॥ हे विष्णो, धर्मस्य प्रथमपुरुषार्थस्य बीजं प्ररोहकारणं सलिलं यस्याः सा सरिद्गङ्गा तवाङ्घ्रौ चरणे स्फुरति शोभते । तथा–अर्थस्य द्वितीयपुरुषार्थस्य मूलमादिकारणं श्रीस्तवोरसि स्फुरति । तथा-कामरूपं दैवतं कामरूपस्तृतीयपुरुषार्थोऽपि ते प्रसवः कृष्णरूपस्य तव प्रद्युम्नरूपतया पुत्र एव । सोऽपि पुत्रत्वाधीन एवेत्यर्थः । तथामुक्तिदं चतुर्थपुरुषार्थभूतमोक्षदानसमर्थं ब्रह्म परमात्मरूपं स्वयमेव स्वरूपेणैव त्वं भासि । चतुर्विधपुरुषार्थहेतुतया धर्मार्थकाममोक्षार्थिनां त्वदुपासनैवोचितेति भावः ॥ इदानीं कतिचिद्भिः श्लोकैर्भगवन्नामसंकीर्तनमाहात्म्यं वर्णयति-

लीलयापि तव नाम जना ये गृह्णते नरकनाशकरस्य ।
तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यनु कथं नरकेभ्यः ॥ ११२॥

 लीलयेति ॥ विष्णो, ये जना नरकस्य भौमासुरस्य नाशकरस्तस्य, अथच-पुण्यश्लो. कत्वान्निरयनाशकारिणस्तव नाम राम, विष्णो, इत्यादि संज्ञा सङ्केतपरिहासादिप्रस-