पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७५}
द्वितीयः सर्गः


अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः सवकुम्भौ भवतः कुचावुभौ ॥३१॥

 अपीति ॥ उभौ कुचौ स्तनौ तद्वपुषि प्रसर्पतोः प्लवमानयोः क्रीडतोर्द्वयोः स्मरयौवनयोः कामतारुण्ययोः प्लवकुम्भौ तरणकुम्भौ भवतः। खलु उत्प्रेक्षायाम् । किंभूते तद्वपुषि-कान्तिझरैः कान्तिप्रवाहैरगाधतामतलस्पर्शत्वं गमिते प्रापितेऽपि । अगाधे ह्युदके क्रीडानुचिता, तत्रापि क्रीडतोरिति द्योतनार्थमपिशब्दः । पूर्वापेक्षया अपिः, अन्यच्च इत्यर्थे वा । अगाधे ह्युदके क्रीडतोर्द्वयोर्घटद्वयेन भाव्यम् । यद्यपि द्विवचनेनैव द्वयोः, उभौ इति च लभ्यते तथापि सदासहवासित्वपरस्परमिलितत्वप्रदर्शनार्थमुक्तमित्यवगन्तव्यम् ॥

कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् ॥३२॥

 कलस इति ॥ न्यायशास्त्रे समवायिकारणमसमवायिकारणं निमित्तकारणं चेति । यत्समवेतमेव कार्यमुत्पद्यते तत्समवायिकारणं, यथा मृत्पिण्डो घटस्य । तत्र पूर्वश्लोके कुम्भत्वारोपणेन तदुभयसाम्यमसहमानः कविः प्रभागुणाधिकत्वप्रतिपादनेन तयोरुत्कृष्टतामारोपयितुं हंसमुखेनापूर्वामुक्तिं भङ्गि प्रणीतवान् । असंभाव्यवस्तुदर्शने परसंमतिप्रश्ने किमुशब्दः। हे राजन्, चक्रभ्रमं करोत्येवंशीलश्चक्रभ्रमकारी तस्य भावश्चक्रभ्रमकारिता तल्लक्षणो गुणः स्वभावः (यः) कलसे घटे दृश्यते स निजस्य स्वस्य घटस्य हेतुर्निमित्तकारणं दण्डस्तस्माज्जातः किमु । समवायिकारणगुणः कार्ये गुणमारभते न निमित्तगुणः। अत्र तु निमित्तगुणः कार्ये गुणमारभत इति असंभाव्यमेतत्त्वया कुत्रचिद्दृष्टमिति प्रश्नार्थः किमु मया तु दृष्टः । कुत्रेत्यपेक्षायामाह-यद्यस्मात्स कलसस्तस्या भैम्या उच्चकुचौ भवन्नुच्चस्तनतां प्रपद्यमानः प्रभाझरेण दीप्तिसमूहेन चक्रभ्रमं कुलालचक्रभ्रमणम: करोति । सुन्दरवस्तुदर्शनेन दृष्टेर्भ्रमणं भवति । सूर्याद्यालोकावलोकनवत् । अथ च स तदुच्चकुचौ भवन्दीप्तिसमूहेन चक्रस्य राष्ट्रस्य, लोकसमूहस्य वा भ्रमं मदजनितं मोहमातनोति । सर्वोऽपि स्तनकान्तिदर्शनेन कामान्धो भवतीति भावः । अथ च कान्तिप्रवाहे चक्रवाकभ्रान्तिमातनोति । (कान्ति )प्रवाहे चक्रवाका भवन्ति (भ्रमन्ति)। अतो भ्रमकारणत्वाच्छब्दच्छलाच्चक्रभ्रमकारितागुणो घटे विद्यते । तुङ्गत्वेन कान्तिमत्त्वेन च तत्कुचौ घटचक्रवाकतुल्याविति भावः। निजः सहजश्चासौ हेतुश्च । समवायिकारणमिति यावत् । तादृशो न भवतीति अनिजहेतुर्निमित्तकारणं तादृशाद्दण्डाज्जाता। किमु इत्युत्प्रेक्षा, आक्षेपो वा । दण्डगुणः कलसे विद्यत इत्यत्र किं प्रमाणमित्याशङ्कायां शब्दच्छलेनाह–स इति । यद् यस्मादिति वा। इति


१ 'अत्र कुचयोः कुम्भत्वसंभावनेनोत्प्रेक्षालंकारो, न रूपकम् । तथा च काव्यप्रकाश:-'संभावनमथोत्प्रेक्षा प्रकृतस्य परेण यत्' । खलुशब्द उत्प्रेक्षाव्यञ्जकः, अतिशयोक्तिरिति वा' इति साहित्यविद्याधरी। 'अत्र कुचयोः स्मरयौवनप्लवनकुम्भत्वोत्प्रेक्षया तयोरौत्कट्यं कुचयोश्चातिवृद्धिर्व्यज्यत इत्यलंकारेण वस्तुध्वनिः' इति जीवातुः। .