पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६१
एकविंशः सर्गः

ङ्गान्तररूपया लीलया विलासमात्रेणापि गृह्णते उच्चारयन्ति तेभ्य एव त्वन्नाममाहिभ्यो नरेभ्य एव सकाशात् पातकियातनास्थानभूतैर्महारौरवादिनरकै स्तत्कर्तृका तदधिकरणिका वा भीतिरुचिता योग्या । तेभ्य एव तैर्भयं प्राप्तुमुचितमित्यर्थः । ते तु नरकनाशकारिभवन्नामग्राहिणः क्षीणपापा नराः पुनः कथं नाम बिभ्यतु भयं प्राप्नुवन्तु, अपितु न कथंचित् । तदुक्तं श्रीभागवते-'साङ्केत्यं पारिहास्यं च स्तौभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥' इति । लीलयापीत्यपिशब्देन ये तु बुद्धिपूर्वमेव भवन्नामजपमेव कुर्वन्ति तेभ्यो नरका बिभ्यतीति किमु वक्तव्यमिति सूचितम् । नरकैर्भीरिति 'कर्तृकर्मणोः कृति' इति षष्ठीप्राप्तावपि सम्पदादित्वात्क्किपः स्त्र्यधिकारविहितत्वात्स्त्रीप्रत्ययत्वे 'शेषे स्त्रीप्रत्यये वा' इति [१]वातिकात्पक्षे 'कर्तृकरणयोः-' इति तृतीया ॥

मृत्युहेतुषु न वज्रनिपाताभ्दीतिमर्हति जनस्त्वयि भक्तः ।
यत्तदोच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक् ॥ ११३ ॥

 मृत्युहेतुष्विति ॥ हे विष्णो, त्वयि विषये भक्तो जनः अनेकेषु मृत्युहेतुषु मध्ये वज्रनिपातरूपान्मृत्युकारणात्सकाशाद्भीतिं नार्हति भयं प्राप्तं योग्यो न भवति । यद्यस्मात्कारणात्तदा वज्रपातसमये तस्य वैष्णवस्य कण्ठान्निष्प्रयत्नं निरन्तरहरिस्मरणाभ्यासबलेन तस्मिन्काले विशिष्टमुद्यमं विनापि तव श्रीरामकृष्णादिनाम द्राक् शीघ्रमुच्चरति निर्गच्छति । वज्रनिपातान्मरणे संजातेऽपि तस्मिन्समये उक्तरीत्या नामोच्चारणभावात्तावन्मात्रेण मोक्षप्राप्तेः पुनर्जन्माभावान्मृत्योर्भयं वैष्णवस्य नास्तीति भावः । मृत्युहेतुषु मध्येऽन्यापेक्षया दारुणान्मृत्युहेतोर्वज्रनिपातादपि सकाशाद्वैष्णवो भयं नार्हति अन्येभ्यो नार्हतीति किं वाच्यमित्यर्थः । तस्मान्मृत्युसमये वैष्णवकण्ठान्निष्प्रयत्नमपि तव नाम द्राङ्निर्गिच्छति । व्याघ्राद्यनेकमृत्युहेतुषु हरिस्मरणादेव मृत्युभयं नास्तीति ज्ञातव्यम् । उच्चरति, सकर्मकत्वाभावात् 'उदश्चरः सकर्मकात्' इति न तङ् ॥
 अथ स्सरणमाहात्म्यमाह-

सर्वथापि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये ।
उद्भवन्ति हृदि चेतसि तेषां शोधनी भवदनुस्मृतिधारा ॥ ११४ ॥

 सर्वथेति ॥ हे विष्णो, सर्वथा मनोवाक्कायनियमनाद्यनेकप्रकारैर्निर्धूतपापतया शुचिनि शुद्धे ब्रह्मार्पितफलत्वेन बन्धककर्मरहिते वा क्रियमाणेऽपि भविनां संसारिणां हृदि मनसि येऽज्ञानप्रमादकृता अवकरा रागादिदोषा उद्भवन्ति तेषां दोषाणां भवतोऽनुस्मृतिर्ध्यानं तस्या धारा परम्परा शोधनी प्रक्षालनहेतुः, नान्यः कश्चित् । कस्मिनिव-मन्दिरोदरे गृहमध्य इव । यथा पुनःपुनर्मार्जनेन विरजस्त्वे क्रियमाणे गृहमध्ये ये तृणरजःपुञ्जा नवा नवा उद्भवन्ति तेषां शोधनी संमार्जनी भवति तथेत्यर्थः ।



  1. भाष्यपर्यालोचनया तु 'उभयप्राप्तौ' इत्येतद्विधीयमाननियमस्यैव वैकल्पिकत्वमनेन क्रियते इति प्रतीयत । 'नरके गदिता भीः' इति पाठे कर्तर्यधिकरणत्वविवक्षायां सप्तमी कल्पनीया । 'नरकैर्निहिता भीः' इति वा पाठः कल्पनीयः । यथाश्रुतेऽपि पाठे कर्तरि करणत्वविवक्षायां वा तृतीया ।