पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६३
एकविंशः सर्गः

विश्वरूप कृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि कुर्वे ।
हेम नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥ ११८ ॥

 विश्वेति ॥ हे विश्वरूप स्थावरजङ्गमात्मकतया कृतविश्व स्थावरजङ्गमकारिन् विष्णो, अहं ते तव वैभवाद्भुतं सामर्थ्यातिशयजन्यं तद्रूपं वाश्चर्यमणौ परमाणुरूपे हृदि मनसि कियत् किंपरिमाणं कुर्वे । अपितु-आधारस्याल्पीयस्त्वात्, आधेयस्य च महीयस्त्वात्सर्वं वैभवाद्भुतमणौ हृदि धारयितुं न शक्नोमीत्यर्थः । यद्यपि ते सामर्थ्यं महत्, तथापि कियदल्पमेव धारयामीति वा । युक्तमेतत् । यस्माद्दरिद्रोऽकिञ्चनो जनः काञ्चनाद्रिं सुमेरुमधिगत्य प्राप्य स्फुरदुरुसुवर्णग्रहणाभिलाषोऽपि सन् शतधा शकलीकृतेऽत्यन्तजीर्णे निजचीरे स्वीये वस्त्रे कियत्किम्परिमाणं हेम नह्यति बध्नाति, अपित्वल्पमेव ग्रन्थौ बध्नात्यसामर्थ्यात्, तथा सकलगुणवर्णनाभिलाषे सत्यपि सामर्थ्याभावात्कियन्मात्रगुणवर्णना कृतेति भावः । इति स्तुत्युपसंहारः॥

इत्युदीर्य स हरि प्रति संप्रज्ञातवासिततमः समपादि।
भावनां[१]बलविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः॥ ११९ ॥

 इतीति ॥ स नलः हरिं प्रति इत्युक्तप्रकारेणोदीर्य प्रसादं सम्प्रार्थ्य द्विविधसमाधिमध्ये सम्प्रज्ञाताख्येन समाधिना तत्र वासिततमः अतितरां सम्भावितमनास्तदेकतानः समपादि जातः । अतएव भावनाबलेन सम्प्रज्ञातध्यानबलेन विलोकिते साक्षात्कृते विष्णौ विषये प्रीतेः सहजप्रेम्णः भक्तेश्च सदृशानि योग्यानि कर्माणि आनन्दबाष्पगीतनृत्यादीनि चरितुं कर्तुं शीलमस्य सः॥ तदुक्तं श्रीभागवते–'शृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तदर्थकानि गायन्विलज्जो विचरेदसङ्गः॥' इति । एवं सम्प्रार्थ्य प्रतिमादिसाकारध्यानेन विष्णुं साक्षादकृतेति भावः । 'विष्णुः' इति पाठे-भावनाबलेन विलोकितो विष्णुर्येन सः । अतएव-प्रीतिभक्तिसदृशानि चरिणुः । ऐकपद्ये-विष्णुप्रीत्यर्थं भक्तियोग्यान्युपहारादीनि । ध्यानसमाधिर्द्विविधः- सम्प्रज्ञातोऽसम्प्रज्ञातश्च । तत्र ध्येयध्यातृभावयुक्त साकारध्यानसमाधिः सम्प्रज्ञातः, संविसंवेद्यविलोपेन निराकारस्वप्रकाशपरमानन्दलक्षणात्मसाम्राज्यध्यानसमाधिरसम्प्रज्ञात इति योगशास्त्रम् ॥

विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः ।
श्रेयसा हरिहरं परिपूज्य प्रह्व एष शरणं प्रविवेश ॥ १२० ॥

 विप्रेति ॥ एष नलः प्रह्वः सन् शरणं भोजनगृहं प्रविवेश । नम्रत्वं गृहप्रवेशिनो जातिः। किम्भूतः-विप्रपाणिषु भृशं नित्यदानसम्बन्धि वसु गोभूहिरण्यादि वर्षत्येवंशीलः तथा पात्रसात्कृतं विद्यातपोवृत्तयुक्तपात्रभूतब्राह्मणाधीनं देयं कृतं पितृक्रतुकव्यं नित्यश्राद्धपितृयज्ञसम्बन्धि कव्यं येन । तथा-श्रेयसा स्नानदेवपूजादिनित्यदाननित्यश्रा-



  1. 'भावनावशविलोकित-' इति जीवातुसंमतः पाठः