पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६४
नैषधीयचरिते

द्धान्तकर्मानुष्ठानजन्येन पुण्येन पुष्पादिना च हरिहरमभेदबुद्ध्या विष्णुशिवरूपं नारायणं परिपूज्य तस्मिंस्तदर्पणेन तं परितोष्य भक्तिनम्रः सन्नमस्कारं कृत्वा नित्यश्राद्धान्तं ब्रह्मार्पणं कृत्वा भोजनार्थ गृहं प्राविशदिति भावः । 'हव्यकव्ये दैवपित्र्ये' इत्यमरः । पात्रसात् 'देये त्रा च' इति सातिः॥

माध्यंदिनादनु विधेर्वसुधासुधांशु-
 राखादितामृतमयौदनमोदमानः ।
प्राञ्चं स चित्रमविदूरितवैजयन्तं
 वेश्माचलं निजरूचीभिरलंचकार ॥ १२१ ॥

 माध्यंदिनादिति ॥ स वसुधासुधांशुर्भूचन्द्रो नलो माध्यंदिनान्मध्यंदिने विधेयाद्विधेरनु पश्चात्पञ्चमहायज्ञनिर्वपणानन्तरमास्वादितोऽमृतमयः शाकसूपादिव्यञ्जनादिनामृतरूप ओदनः, तेन शालितण्डुलप्रभवेणौदनेन कृत्वा मोदमानः । आस्वादितोऽमृतमय ओदनो येन अतएव मोदमानो हृष्यत्तमः । एवंभूतः सन् प्राञ्चं यत्र भैम्या सह परिहासविलासं कृतवांस्तं पूर्वम् । अथच-वास्तुशास्त्रे 'शयनस्थानं प्राच्यां कर्तव्यम्' इत्युक्तत्वान्मुख्यराजप्रासादात्पूर्वदिक्स्थम्, चित्रं चित्रलेख्ययुक्तमद्भुतरूपं वा । तथा-अत्युच्चत्वाच्छोभासाम्याच्चाविदूरीकृतो निकटीकृतो महेन्द्रप्रासादो येन वैजयन्ततुल्यं वेश्माचलं प्रासाद्रूपं पर्वतं निजरुचीभिः स्वीयकायकान्तिभिरलं चकार । भोजनं कृत्वा तं प्रासादमारूढवानित्यर्थः । चन्द्रोपि उदयन्नास्वादितामृतरूपेणौदनेन मोदमानः सुधापूर्णोऽद्भुतरूपं प्राच्यां वर्तमानत्वादुच्चत्वाञ्च संनिहितवैजयन्तं प्राच्यां वर्तमानमुदयाचलं निजकिरणैरलंकरोति । अथच-चित्रमिति विरोधादाश्चर्यम् । चन्द्रो हि मध्यंदिने वर्तमानं मध्यंदिनसमयानन्तरमस्ताचलमेव रुचिभिरलंकरोति, नतु प्राच्यमचलम् । अयंतु चन्द्रोपि मध्याह्नानन्तरमपि प्राञ्चमचलमलंचकारेत्याश्चर्यमित्यर्थः। 'विवस्वान्-'इति पाठे-पूर्ववदन्यत् । आस्वादितं सर्वेभ्यो गृहीतं यदमृतं जलं तद्रूपेणौदनेन मोदमानः सूर्योऽप्येवंभूतमुदयाचलं निजदीप्तिभिरलंकरोति । अथच-सूर्योपि मध्याह्नानन्तरमस्ताचलमेवालंकरोति, नतु प्राश्चमचलम् । अयं तु सूर्यः प्राश्चमचलमलं कृतवानिति चित्रमित्यर्थः । प्राञ्चम् 'ऋत्विग्-' इत्यादिना क्विनि 'उगिदचाम्-'इति नुमि [१]श्चत्वम् ॥

भीमात्मजापि कृतदैवतभक्ति[२]पूजा
 पत्यौ च भुक्तवति भुक्तवती ततोऽनु ।
तस्याङ्कमङ्कुरिततत्परिरिप्समध्य-
 मध्यास्त भूषणभरातिभरालसाङ्गी ॥ १२२ ॥



  1. इदं त्वनुस्वारदृष्टया श्रुत्वस्यासिद्धत्वविस्मरणमूलकम् ।
  2. 'वैदिकमन्त्राध्ययने शूद्राणामिव स्त्रीणामप्यनधिकारः' इति वदन्तस्त्वार्षमूलग्रन्थानभिज्ञा एव ।