पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६५
एकविंशः सर्गः।

 भीमेति ॥ ततोऽनु नलप्रासादारोहणानन्तरं भीमात्मजापि तस्याङ्कमध्यास्त । कीदृशी-कृता गौर्यादिदैवतानां भक्त्या षोडशोपचारपूजा यया । तथा-पत्यौ च भुक्तवति सति स्वयमपि भुक्तवती । अनन्तरं च भूषणभरेण अलंकारबाहुल्येन योऽतिभारो गौरवं तेनालसमङ्गं यस्याः सा। भूषणबाहुल्येनातिभरं यथा तथा वा भूषणभरमपि वोढुमसमर्थाऽतिमृद्वी तद्वशान्मन्दगतिर्वा । कीदृशमङ्कम्-अङ्कुरिता समुदिता तत्परिरिप्सा भैम्यालिङ्गनवाञ्छा यस्य तादृशो मध्यदेशो यस्य । उक्तविशेषणविशिष्टा सती नलाज्ञया तदङ्के समुपाविशदिति भावः । अपिर्नलदेवपूजापेक्षया समुच्चयार्थः । पत्यौ भुक्तवतीति पतिव्रताजातिः। 'परिरिप्सुमध्यम्' इति पाठे भैमीस्पर्शसंजातसात्विकरोमाञ्चं तदालिङ्गनेच्छु मध्यं यस्य । 'भरातिभरा' इत्येव पाठः साधीयान् । पाठा[१]न्तरंचिन्त्यम् । अङ्कम्, 'अधिशीङ्स्थासाम्-' इति कर्मत्वम् ॥

तामन्वगादशितबिम्बविपाकचञ्चोः
 स्पष्टं शलाटुपरिणत्युचितच्छदस्य ।
कीरस्य कापि करवारिरुहे वहन्ती
 सौन्दर्यपुञ्जमिव पञ्जरमेकमाली ॥ १२३ ॥

 तामिति ॥ काप्यनिर्दिष्टनामातिसुन्दरी वाली सखी तां भैमीमनु लक्षीकृत्य पश्चादगात् जगाम । कीदृशी-कीरस्य शुकस्यैकं पञ्जरं करवारिरुहे पाणिपद्मे वहन्ती । उत्प्रेक्षते-शुकस्यात्मनो वा सुवर्णादिघटितत्वात्पञ्जरस्यैव वा मूर्तं सौन्दर्यपुञ्जमिव पृथक्करे पञ्जररूपेण वहन्तीति सम्बन्धः। किम्भूतस्य कीरस्य-अशितस्य भक्षितस्य पक्वस्य बिम्बस्य बिम्वीफलस्य विपाकः परिणामस्तद्रूपा चञ्चुर्यस्य । अतिप्रियभुक्तपक्वबिम्बफलमेव यदीयचञ्च्वाकारेण परिणतमिति यावत् । तादृशस्यातिरक्तचञ्चोः। तथा स्पष्टं सर्वथापि शलाटुरपक्वं यत्किञ्चित्फलं भुक्तं बिम्बीफलमेव वा, तस्य परिणतिरतिनीलता तस्या उचितास्तद्योग्या अतिनीलाश्छदाः पक्षा यस्य । अपक्वानि श्यामानि भक्षितानि फलान्तराणि बिम्बीफलान्येव वा यदीयच्छदाकारेण परिणतानीति यावत् । तादृशस्यातिहरितपक्षस्य कीरस्य रक्तचञ्चुत्वं नीलपक्षत्वं जातिः । पाठितशुकादिपञ्जरादिधारिण्याः सख्या अपि नायिकानुगमनं जातिः। भोजनानन्तरं पाठितशुकसारिकादिशब्दानां गीतस्य च श्रवणेन नृत्तादिवीक्षणेन च क्रीडनं राज्ञामपि जातिः । 'आमे फले शलाटुः स्यात्' इत्यमरः॥

कूजायुजा बहुलपक्षशितिम्नि सीम्ना
 स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन ।
तिर्यग्धृतस्फटिकदण्डकवर्तिनैका
 तामन्ववर्तत पिकेन मदाधिकेन ॥ १२४ ॥



  1. 'भूषणभरातितरालसाङ्गी' इति पाठो जीवातुसम्मतः ।