पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६७
एकविंशः सर्गः।

सा यद्धृताखिलकलागुणभूमभूमी-
 भैमीतुलाधिगतये स्वरसङ्गतासीत् ।
तं प्रागसावविनयं परिवादमेत्य 
 लोकेऽधुनापि विदिता परिवादिनीति ॥ १२७ ॥

 सेति ॥ सा विपञ्ची धृतानामखिलानां गीतनृत्तादिचतुःषष्टिकलानां सौन्दर्यादिगुणानां च भूम्नो बाहुल्यस्य भूमी स्थानभूता भैमी तस्यास्तुलाधिगतये साम्यप्राप्तये स्वयमपि पूर्वोक्तप्रकारेण तादृशी सती भैमी स्वतुल्यत्वप्राप्तये यत् स्वरैः षड्जादिभिः सङ्गता सम्बद्धा आसीत् । अथच-भैम्या सार्धं साम्यप्राप्तये स्वरसं स्वाच्छन्द्याभिलाषं गताभूत् । असौ विपञ्ची तं भैमीसाम्यस्वाच्छन्द्याभिलाषलक्षणमविनयमत्युत्तमावमाननामेव परिवादं स्फुटं दोषं प्राक् पूर्वमेत्य प्राप्य, अथच परिवादं वीणावादनसाधनं तद्रूपमविनयं प्राप्य अधुनापि अद्य यावदपि लोके परिवादिनीति विदिता ख्याता । परिवादयोगात्परिवादिनीत्यद्यापि गीयत इत्यर्थः । अथ च-वीणावादनसाधनयुक्ता । यद्वा-सप्ततन्त्रीयुक्ता वीणा परिवादिनी । 'भीतो भयानि पश्यति' इति न्यायेन पूर्वमपि लोके दुष्टतां प्राप्ता पुनरपि चोत्तमस्य पुरस्तात्पागल्भ्ये दोषान्तरं शङ्कमानेवाप्रतिभावतीति प्राचीनश्लोकार्थहेतुतया योज्यम् । 'परिवादः कलङ्के स्याद्वीणावादनवस्तुनि' इति विश्वः॥

नादं निषादमधुरं ततमुज्जगार 
 साभ्यासभागवनिभृत्कुलकुञ्जरस्य ।
स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा 
 वीणा विचित्रकरचापलमाभजन्ती ॥ १२८ ॥

 नादमिति ॥ अवनिभृतां कुलं वंशस्तत्र कुञ्जरः श्रेष्ठस्तस्य नलस्याभ्यासभाक् समीपवर्तिनी सा तन्त्री वीणावाद्यरूपा निषादस्वरेण मधुरं श्रव्यं ततमत्युच्चं नादमुज्जगारोद्गीर्णवती । किम्भूता-कृतः सश्रुतीनां द्वाविंशतिश्रुतियुतानां षड्जादीनां मूर्धनि नादप्रान्ते कम्पः कम्पितस्वरो यया। कृतःसह श्रुतिभिर्यथातथा मूर्धनि वीणाया एवोपरितनभागे कम्पितस्वरो यया वीणोर्ध्वं समग्राङ्गुलीसंयोगाद्धि निषादस्वरो जायते तादृशी वा । कृतः सश्रुतीनां द्वाविंशतिविदां सङ्गीतशास्त्रविदां मूर्धकम्पो यया वा । तथा-विचित्रं करचापलं नानारूपमारोहावरोहादिक्रमेणाङ्गुलीप्रान्तस्पर्शवशेन वादकपाणिचाञ्चल्यं तत्क्षणमेवानेकस्थानावस्थानलक्षणमा सामस्त्येन भजन्ती निषादप्रधानं ललितादिमङ्गलगीतं प्रकटीचकारेत्यर्थः । केव-स्तम्बेरमी हस्तिनीव । सापि अवनिभृत् पर्वतः कुलं वंशः उत्पत्तिस्थानं यस्य तादृशस्य पर्वतभवस्य हस्तिश्रेष्ठस्य राजसम्बन्धिनो वा हस्तिनः समीपवर्तिनी सकामा। तथा-जातिस्वभावात्कृतसकर्णशिरःकम्पा कृतसशब्दशिरःकम्पा वा । तथा नानाप्रकारं शुण्डादण्डताण्डवं भज-