पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
९६९
एकविंशः सर्गः।

स्फुटं गायन्ति स्मेति भावः । एतेन गन्धर्वराजकन्यानां वीणाप्रावीण्यम्, शुकस्यापि प्रज्ञातिशयश्च सूचितम् । 'गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते' इत्यमरः॥
 'इत्थम्' इति यदुक्तं तदेवाह-

अस्माकमुक्तिभिरवैष्यथ एव बुद्धे-
 र्गाधं युवामतिमती स्तुमहे तथापि।
ज्ञानं हि वागवसरावचनाद्भवभ्द्या-
 मेतावदप्यनवधारितमेव न स्यात् ॥ १३१ ॥

 अस्माकमिति ॥ यद्यपि अतिशयिता मतिर्ययोस्तौ युवामस्साकमुक्तिभिर्गाथारूपाभिरेवास्मद्वाग्रचनाभिरस्माकं बुद्धेर्गाधमुत्तानार्थत्वमेवैष्यथ एव ज्ञास्यथ एव, तथापि वयं युवां स्तुमहे स्तुम एव । हि यस्माद्भवद्भ्यां वागवसरे स्तावकादिवचनावसरे सत्यपि अवचनादभाषणाद्धेतोरेतावदत्युन्नतार्थमत्यल्पमप्यस्मदीयं ज्ञानमनवधारितमेव न स्यात्, अज्ञातमेव न स्यात् तन्मास्तु इत्यर्थः । तस्मात्स्तुमह एव । वर्णनायां क्रियमाणायामयमल्पज्ञानो बहुज्ञान इति वा ज्ञातुरग्रे प्रसिद्धो भवति । तस्माद्वर्णयाम इति भावः। इत्येवं वीणानिबद्धगन्धर्वपुत्रीवचनं शुकोऽन्ववददित्यर्थः। एवमुत्तरत्रापि ज्ञेयम् । एतेन गन्धर्वपुत्रीभिः स्वमौद्धत्यं परिहृतम् ॥

भूभृद्भवाङ्कभुवि राजशिखामणेः सा  
 त्वं चास्य भोगसुभगस्य समः क्रमोऽयम्।
यन्नाकपालकलनाकलितस्य भर्तु-  
 रत्रापि जन्मनि सती भवती स भेदः ॥ १३२ ॥

 भूभृदिति ॥ सा भूभृद्भवा हिमाचलसुता पार्वती भोगैर्वासुक्यादिसर्पशरीरैः सुभगस्य भूपितस्य राजा चन्द्रः शिखामणिर्यस्य चन्द्रमौलेरङ्कभुवि उत्सङ्गदेशे। वर्तत इति शेषः । प्रियतमत्वात् । त्वं च त्वमपि भीमपुत्री चन्दनादिभोगैर्मनोहरस्य राज्ञां मुकुटमणेः श्रेष्ठतमस्यास्य नलस्योत्सङ्गदेशे वर्तत इत्ययं क्रमः समः परिपाटी उचिता । पार्वत्या महेशस्य च, तव नलस्य च, राजकन्याया राजश्रेष्ठस्यान्योन्यसम्बन्धः समुचित एवेत्यर्थः । अथ च-समस्तुल्यः । यथा तयोः सम्बन्धस्तथा युवयोरपीत्यर्थः । अथच-अयं शब्दश्लेपरूपः सम्बन्धस्तुल्यः । एवं यद्यपि क्रमः समः, तथापि स पुनर्भेदो विसदृशत्वम्, यत् नाकपालस्येन्द्रस्य कलनांऽशत्वेनैकीभवनं तया कलितस्य व्याख्यातस्य राजत्वादिन्द्रांशत्वेन प्रसिद्धस्य भर्तुर्नलस्य संबन्धिनी अत्राप्यस्मिन्नपि जन्मनि भवती सती पतिव्रता । अपिशब्दान्न केवलमत्रैव किन्तु जन्मान्तरेऽपि त्वं सत्येव अन्यथात्रापि सतीत्वानुपपत्तेः। पार्वती तु ब्रह्मकपालस्य कलनया करेण धारणया कलितो विदितो न भवति अकपालकलनाकलितः, तादृशोपि न भवति कपालित्वेन