पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७०
नैषधीयचरिते

ख्यातस्य भर्तुर्महेशस्य संबन्धिनी, पूर्वजन्मनि दक्षापत्यत्व एव सती नतु हिमवदपत्यत्वेपीति महद्वैषम्यम् । हरस्य नलस्य चोक्तसकलश्लेषसाम्येति पार्वत्यास्तव च किंचिदेव शब्दलेषसाम्यं नतु सर्वमुक्तरीत्या तवाधिकत्वादित्यर्थः। हिमवदपत्यत्वे पार्वत्या असतीत्वोक्तेनिन्दा नाशङ्कनीया, भैमीस्तुतिपरस्य सतीशब्दस्य पार्वत्या नामपरत्वमात्रव्यावर्तकत्वेनोक्तेर्निन्दापर्यवसानाभावात् ॥

एषा रतिः स्फुरति चेतसि कस्य यस्याः
 सूते रतिं द्युतिरथ त्वयि वा तनोति ।
त्रैयक्षवीक्षणखिलीकृतनिर्जरत्व-
 सिद्धायुरध्वमकरध्वजसंशयं कः ॥ १३३ ॥

 एषेति ॥ एषा भैमी कस्य वा चेतसि रतिः कामप्रियेति स्फुरति अपितु-न कस्यापि। यतः~यस्या एतस्या द्युतिः कायकान्तिः रतिं कामप्रियां सूते। अथच-अनुरागं प्रसूते, अर्थात्त्वयि । अङ्गजत्वात्कान्तिः पुत्री, रतिश्च तत्पुत्री, सा यस्या नप्त्री, सेयं स्वयं रतिरिति कस्य वा चेतसि मतिः स्यात्, न कस्यापीत्यर्थः । अथवा-त्वय्यपि विषये त्रैयक्षेण हरसम्बन्धिना वीक्षणेन तृतीयनेत्रेण खिलीकृतो न्यूनीकृतो निर्जरत्वेन देवत्वेन सिद्धोऽमरत्वरूप आयुषोऽध्वा मार्गो यस्य तादृशस्य मकरध्वजस्य कामस्य संशयं रूपसादृश्यात्किमयं काम इति सन्देहं को वा तनोति, अपितु न कोपि करोति । कामस्य हरेण दग्धत्वात्सन्देहनिवृत्तेरित्यर्थः । आ इत्याश्चर्ये । यस्य तवाङ्गजा कान्तिर्यतो रतिं सूते । ततो रतिस्तवापि नप्त्री सा कामस्य स्त्री । तस्मात् त्वयि कामसंशयं कोपि न करोतीत्यर्थः । इति नलं प्रति तद्वचनं शुकेनान्ववादि इति वा । रतिकामाभ्यामपि युवामतितमां सुन्दराविति भावः । त्रैयक्षेति सम्बन्धेऽणि 'न य्वाभ्याम्-' इति वृद्धिनिषेधे पूर्वमैजागमः॥

एतां धरामिव सरिच्छविहारिहारा-
 मुल्लासितस्त्वमिदमाननचन्द्रभासा ।
बिभ्रद्विभासि पयसामिव राशिरन्त-
 र्वेदिश्रियं जनमनःप्रियमध्यदेशाम् ॥ १३४ ॥

 एतामिति ॥ हे नल त्वं विभासि । किम्भूतः-एतां भैमीं बिभ्रत् अङ्के धारयन् । किम्भूताम्-सरितां नदीनां छविं कान्तिं हरन्ति तच्छीला उज्ज्वलतरा मौक्तिकहारा यस्यास्ताम् । तथा-वेद्यामन्तर्वेदि वेदिकामध्यं तद्वदतिकृशा श्रीः शोभा यस्याः । अन्तर्मध्ये वेदिवदतिकृशा श्रीर्यस्या वा । तथा-जनमनसां प्रिय आनन्ददायी मध्यदेशः शरीरमध्यभागो यस्यास्ताम् । किम्भूतः-अस्या भैम्या आननमिदमाननं तल्लक्षणश्चन्द्रस्तस्य भासा कान्त्या उल्लासितो हर्षं प्रापितः । क इव-चन्द्रभासा वृद्धिं प्रापितः