पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७१
एकविंशः सर्गः।


पयसां राशिः समुद्र इव । कामिव-धरां भूमिमिव । यथा पृथ्वीमके धारयन् समुद्रः शोभते । किंभूतां धराम्-सरितो नद्य एव छव्या कान्त्या हारिणो मनोहरा हारा यस्यास्ताम् । तथा अन्तर्वैद्याख्यया गङ्गायमुनामध्यभुवा श्रीर्यस्यास्ताम् । तथा-जनमनसां प्रियो मध्यदेशो विन्ध्यहिमाचलान्तरभूभागरूप आर्यावर्तापरपर्यायः पुण्यभूतो मध्यदेशो यस्यास्ताम् । 'हिमवद्विन्ध्ययोर्मध्यं यत्प्राक्कनखलादपि [१] । प्रत्यगेव प्रयागाञ्च मध्यदेशः प्रकीर्तितः ॥' इति मनुः । इदमाननम् , षष्ठीसमासः॥

दत्ते जयं जनितपत्त्रनिवेशनेयं
 साक्षीकृतेन्दुवदना मदनाय तन्वी।
मध्यस्यदुर्बलतमत्वफलं किमेत-
 झुक्तिर्यदन तव भर्त्सितमत्स्यकेतोः ॥ १३५ ॥

 दत्त इति ॥ जनितानि सखीभिः कस्तूर्यादिविरचितानि पत्त्रनिवेशनानि मकराद्याकारपत्त्रवल्लीलेखनानि यस्याः सा, पत्रवल्लीभूषिता । तथा-अक्षिभ्यां सह वर्तमानः साक्षः असाक्षः साक्षः कृतः सनेत्रतां प्रापितः साक्षीकृतः स चासाविन्दुश्च स एव वदनं यस्याः सा, चन्द्राधिकवदना । तन्वी कृशाङ्गी भैमी मदनाय जयं दत्ते । एवंविधभैमीदर्शनेन कामो नितरामुल्लसतीत्यर्थः । अथ च-कामाय जयं दत्ते । एवंविधभैमीदर्शनवशीकृतस्त्वं कामेन जीयस इत्यर्थः। यच्च कायकान्त्या भर्त्सितो जितो मत्स्यकेतुः कामो येन तस्य तवात्र भैम्यां विषये भुक्तिरेव तच्छरीरोपभोग एतन्मध्य उदरभागे स्थितस्य वर्तमानस्य दुर्बलतमत्वस्यातिकार्श्यस्य फलं परिपाकः किमिति प्रश्नः, संभावना वा । अतिसुन्दरस्य तवैवैतच्छरीरभोगेऽतिकृशैतदुदररामणीयकमेव प्रयोजकमित्यर्थः । अथ च--मध्यदेशवर्तिनोऽतिकार्यस्य फल(त्व)मेतदेव, यदतिसुन्दरस्य तवात्र भुक्तिर्नामेत्यर्थः । कामेन तव विजये एतन्मुखचन्द्रस्य च साक्षाद्रष्टत्वात् साक्षित्वं युक्तम् । अथ च-कामेन जितमिति कामस्य जयदाने साक्षीकृता इन्दुवदनाः स्वसख्यो यया । ता अपि हि कामेन नलो भैमीवशः कृत इति जानन्ति । एवंसत्यपि क्रूरोक्त्यादिना तर्जितः कामो येन तस्य तवान्यस्मिन्भैमीविषये वा विवादविषये यो भोगः। लब्धजयं कामं क्रूरोक्त्या संतर्ज्य तदीयमपि विषयं वलादन्यायेनैव भुङक्त्त इत्यर्थः। अथ च-मध्यस्थानां सभ्यानां दुर्बलतमत्वस्य ज्ञानदौर्बल्यस्य नियन्तुमसामर्थ्यस्य स्वदत्तजयनिर्वहणाशक्तत्वस्य वा फलं परिपाकः किमयमिति संभावना । अन्यत्रापि विवादपदे साक्षिवादनं कृत्वा जयपत्रदानपुरःसरमेकस्मै जयपत्त्रं दीयते, तत्र निर्णये कृते मध्यस्थाश्चेद्दुर्बला भवन्ति तर्हि पराजितोऽप्येको लब्धजयमपि द्वितीयं तिरस्कृत्य तदीयं विवादपदं क्षेत्रादिकं बलाद्भुङ्क्ते । कथमन्यथा ससाक्षिकजयपत्रहस्तं निर्भा-


  1. यत्प्राग्विनशनात्' इति पाठ आधुनिकपुस्तकेप्पलभ्यते ।