पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७२
नैषधीयचरिते


न्योऽन्यदीयभुक्तिं करोतीत्यर्थापत्तिः। साक्षीकृतेति 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः 'बहुव्रीहौ सक्थ्यक्ष्णोः' इति षचि च्विः। पक्षे 'साक्षादृष्टरि-' इतीनौ च्विः ॥


चेतोभवस्य भवती कुचपत्रराज-
 धानीयकेतुमकरा ननु राजधानी ।
अस्यां महोदयमहस्पृशि मीनकेतोः
 के तोरणं तरुणि न ब्रुवते भ्रुवौ ते ॥ १३६ ॥

 चेत इति ॥ ननु भैमि, भवती चेतोभवस्य राजधानी नगरी। कीदृशी-कुचपत्रेषु राजानः श्रेष्ठाः पत्त्रवल्ल्य इत्यर्थः। तेषु धानीयः स्थापनीयः। यद्वा-कुचपत्त्रमेव राजधानीयो राजधानीसंबन्धी केतुर्ध्वजश्चिह्नभूतो मकरो मत्स्यो यस्यां सा । राज्ञो मुख्यावस्थाननगर्यां राजधान्यां साभिज्ञानश्चिह्नरूपः पताकाध्विजो भवति । तथा च केतुभूतस्य मकरस्य त्वत्कुचयोर्वर्तमानत्वात्त्वं कामराजस्य राजधानी । साक्षान्मदनस्त्वय्येव वर्तत इत्यर्थः । अत एव हे तरुणि आरूढयौवने, भैमि, के जना मीनकेतोर्मकरध्वजस्य संबन्धिनं महोदयरूपं महमुत्सवं महानभ्युदयो यस्मिंस्तादृशं वोत्सवं स्पृशन्त्यां स्वस्वामिकामोदयोत्सववत्यामस्यां भवद्रूपायां राजधान्यां ते तव भ्रुवौ तोरणं न ब्रुवते । अपितु-सर्वेपि जनास्त्वद्भूयुगं कामाभ्युदयोत्थितवक्रितशिखं वंशद्वयनिबद्धस्याम्रादिमाङ्गलिकसुनीलपल्लवरूपं तोरणमेव वदन्ति । कामस्त्वदेकाश्रयः सन्सर्वोत्कर्षेण वर्तत इति भावः। 'पत्रराजी-' इत्यपि पाठः स्पष्टार्थः । राजेति पाठो मुख्यः । 'राजा-' इत्यादिना समासान्तः॥

अस्या भवन्तमनिशं भवतस्तथैनां
 कामः श्रमं न कथमृच्छति नाम गच्छन् ।
छायैव वामथ गतागतमाचरिष्णो-
 स्तस्याध्वजश्रमहरा मकरध्वजस्य ॥ १३७॥

 अस्या इति ॥ हे नल, अस्या भैम्याः सकाशाद्भवन्तं गच्छन् । तथा-भवतः सकाशादेनां भैमीं गच्छन् प्राप्नुवन् कामः कथं नाम श्रमं न ऋच्छतु गच्छतु, अपितु सदा यातायाते कुर्वन् श्रमं गच्छत्येव । अथवा यस्माद्वां युवयोश्छाया कायकान्तिरेवोक्तरीत्या गतागतमाचरिष्णोस्तस्य मकरध्वजस्याध्वनि जातं श्रमं हरति एवंभूता भवतीति शेषः। दृश्यमानभवच्छोभालोभादेव यातायाताश्रयं न वेत्तीत्यर्थः । अथच--वृक्षच्छत्रादिनिर्मिता छाया मार्गे गतागते कुर्वतः पुरुषस्य श्रमं हरत्येव । भैम्यास्त्वय्येव कामः, तव च भैम्यामेव नान्यत्रेत्येवं परस्परानुरागः कुत्रापि नास्तीति भावः॥