पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/९९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७३
एकविंशः सर्गः।


खेदाप्लवप्रणयिनी नवरोमराजी
 रत्यै यदाचरति जागरितव्रतानि ।
आभासितेन नरनाथ मधूत्थसान्द्र-
 मग्नासमेषुशरकेशरदन्तुराङ्गः ॥ १३८ ॥

 स्वेदेति ॥ हे नरनाथ, स्वेदो धर्मजलं तस्मिंस्तेन वा आप्लवः स्नानं तत्र प्रणयिनी प्रीतिमती सात्त्विकसंजातस्वेदपूरव्याप्ता तव रोमराजी रत्यै सुरतार्थं जागरितस्योडुद्धस्य व्रतानि उद्रतरोमाञ्चनियमान्यदाचरति । उन्निद्रा भवतीति यावत् । तेन कारणेन रोमाञ्चेन वा त्वं मधुनः पुष्परसस्योत्थानेनोदयेन सान्द्राः पुष्परसपूरेण निरन्तरव्याप्ताः मग्ना: त्वच्छरीरान्तःप्रविष्टा असमेषोः कामस्य पुष्परूपाः शरास्तेषां केसरैः पिच्छप्रायैदन्तुरमुच्चावचीकृतमङ्गं यस्य, स्वेदरोमाञ्चो(भय)युक्तत्वात्प्रत्यङ्गमन्तर्मग्नसमधुकामबाणसंबन्धिबहिरवस्थितपतत्रपत्ररागव्याप्ताङ्ग इवाभासि । भैमीयोगात्सस्वेदरोमाञ्चो रिरंसुः कामशास्त्र(योजितः) सुतरां शोभस इत्यर्थः । अथच-रोमराजिर्दूतीस्थानीया, तथाच-तव दूतीव रोमराजिः कृततीर्थस्नाना रत्यै कामप्रियां त्वद्धीनां कर्तुं यस्माज्जागरणादिनियमान् करोति तेन कारणेन विशिष्टनिमग्नकामबाणा पिच्छसंभृताङ्गवच्छोभसे । अन्यापि तरुणी कृतस्नाना रत्यर्थं कान्तेन सह सहस्वेदा सकलां रात्रिं जागर्ति॥

प्राप्ता तवापि नृप जीवितदेवतेयं
 धर्माम्बुशीकरकरम्बनमम्बुजाक्षी।
ते ते यथा रतिपतेः कुसुमानि बाणाः
 खेदस्तथैव किमु तस्य शरक्षतास्त्रम् ॥ १३९ ॥

 प्राप्तेति ॥ हे नृप, अम्बुजाक्षी तव जीवितदेवता प्राणेश्वरी इयं भैम्यपि धर्माम्बुशीकरकरम्बनं स्वेदजलविन्दुमिश्रणं प्राप्ता । इयमपि त्वदीयस्पर्शवशात्सात्विकस्वेदयुक्ताऽभूदित्यर्थः । न केवलं त्वमेव स्विन्नः, अपि त्वियमपीत्यपेरर्थः। अथच-देवतायाः स्वेदो नास्ति, इयं तु देवतापि सस्वेदेति विचित्रमित्यपिशब्दार्थः । अतश्च कुसुमान्येव यथा येन प्रकारेण ते ते भैमीकरचरणादिरूपेण प्रसिद्धपराक्रमा मोहनशोषणादिकाभयाणास्तथैव तेनैव प्रकारेणायं स्वेदस्तस्य कामस्य संबन्धि कामेन रचितं शरक्षतास्त्रं स्वीयबाणवणरुधिरं किमु । एतस्याः कामबाणविद्धत्वात्स्वेदस्तज्जन्यव्रणरुधिरत्वनैव संभावयितुं युक्तः। 'याद्दशो यक्षस्तादृशो बलिः' इतिन्यायेन पुष्पवाणानां धवलत्वात्तज्जन्य रुधिरमपि ताद्दगेव युक्तम् । स्वेदजलस्य रुधिरत्वं युक्तमित्यर्थः । कुङ्कुमाङ्गरागलगनाद्वा रक्तत्वात्स्वेदजलस्य रुधिरत्वं युक्तम् । इयमपि कामविद्धा रिरंसुरस्तीति भावः॥