पृष्ठम्:पतञ्जलिचरितम्.djvu/५०

पुटमेतत् सुपुष्टितम्
४६
काव्यमाला ।

प्रतिबिम्बितादुडुगणाद्विभिद्यते
निजसौरभेण निबिडीकृतालिना ॥ ३९ ॥

घनयावकाङ्कनिजपादमुद्रितं
नवहंसतूलशयनं सखीजने ।
निपुणं विलोकयति यत्र मुग्धया
सपदि न्यमज्जि महति त्रपाम्बुधौ ॥ ४० ॥

तरुणी गृहाग्रमधिरुह्य दृष्टव-
त्यमरीः सहस्रमनिमेषलोचनाः ।
रमणस्य यत्र मणिसालभञ्जिका-
निकटेऽपि नानुमनुतेऽधरग्रहम् ॥ ४१ ॥

मकरीविलेखनविधौ नवोढया
विवृतौ निरीक्षितुमुरोजकुड्मलौ ।
अपि संवृतस्फटिकभित्तिमन्तरा
बत यत्र निन्दति यु[१]वा विवृण्वतीम् ॥ ४२ ॥

परिरम्भचुम्बनविधायिदम्पति-
प्रतिमामवेक्ष्य यदगारभित्तिषु ।
रहसि प्रियेण शयने सहस्थितिः ।
कियदन्वमन्यत परं नवोढया ॥ ४३ ॥

शिखिपिच्छकस्य समवेक्ष्य चन्द्रकं
वलभीविटङ्कपटलावलम्बिनः ।
यदुदारसद्मनि नवोढया सखी-
नयनभ्रमादपसृतं प्रियान्तिकात् ॥ ४४ ॥



  1. ‘युवा विवृण्विति' क.