पुटमेतत् सुपुष्टितम्
४८
काव्यमाला ।
वसनानि वा मणिविभूषणानि वा
सुलभानि यत्र धनिषु प्रदातृषु ।
नटतस्त्विहादिजटिलस्य किं ब्रुवे
वसनं दिगाभरणमस्थिमण्डलम् ॥ ५१ ॥
म[१]णिकर्णिकां गतवता शरीरिणा
श्रुतिभूषणं किमपि यत्र लभ्यते ।
इति विस्मयः क इह तत्किलाद्भुतं
यदसावुपागमदहीनकङ्कणम् ॥ ५२ ॥
मणिकर्णिकाम्भसि तनूस्त्यजन्ति ये
मनुजास्ततोऽपहृतकोशपञ्चकाः ।
अपि यत्र मुञ्चति मृ[२]डो न हि क्षणं
स तथाविधः कितवशेखरो न किम् ॥ ५३ ॥
श्रवणे किमप्युपदिशन्विभूतिम-
प्यलिकेऽर्पय[३]न्नुरसि चास्थिमालिकाम् ।
हरते स यत्र मणिकर्णिकातटे ।
जटिलो यदस्ति जगतीह देहिनाम् ॥ ५४ ॥
निखिलस्मृतीरयमतीत्य वर्ततां
गिरिशो न दण्डधरतो बिभेतु वा ।
करुणाकरोऽप्यपहरन्कथं नृणां
तनुमेव यत्र न पुनः प्रयच्छति ॥ ५५ ॥
स्वतनूरपास्य मणिकर्णिकातटे
सहसा विमुक्तिमनुधावतां नृणाम् ।