पुटमेतत् सुपुष्टितम्
६४
काव्यमाला ।
आकर्ण्य शंकरमुनेर्वचनं तदित्थ-
मद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शंकर स शंकर एव साक्षा-
ज्जातस्त्वमित्यहमवैमि समाधिनेति ॥ ६९ ॥
तस्याथ दर्शितवतश्चरणौ गुहायां
द्वा[१]रे ह्यपूजयदुपेत्य स शंकरार्यः ।
चार इत्युपदिदेश स तत्त्वमस्मै
गोविन्दतापसगुरुर्गुरवे यतीनाम् ॥ ७० ॥
गोविन्ददेशिकमुपास्य चिराय भक्त्या
तस्मिन्स्थिते निजमहिम्नि विदेहमुक्त्या ।
अद्वैतभाष्यमुपकल्प्य दिशो विजित्य
काञ्चीपुरे स्थितिमवाप स शंकरार्यः ॥ ७१ ॥
गोविन्दस्य व्रतिकुलगुरोः सिद्धिमा[२]कर्ण्य कृत्वा
यत्कर्तव्यं तदपि वररुंच्यादयो भ्रातरस्ते ।
स्वे स्वे कर्मण्यवहितधियो विद्यया कीर्तिमन्त-
श्चत्वारोऽपि स्थितिमभिमतामुज्जयिन्यामकुर्वन् ॥ ७२ ॥
इति श्रीयज्ञरामर्दीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृतौ
पतञ्जलिचरितेऽष्टमः सर्गः ।
समाप्तोऽयं ग्रन्थः ।