पृष्ठम्:पद्मिनीपरिणयः.pdf/१०४

पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः

विद्-सा ताए सही तुमं णीदवदी तुह सरिसी एव्व भषे। सा तस्याः सखी त्वान्नीतवती तव
सदृश्येव भवेत् ?
कासा-(विहृस्य ) तत:?
मिलि-निगूढं तया गमितोऽहं अपश्यं तत्र वश्यं कौमुदीहावस्य वयस्यम् ।
विदू-केरिसो दिट्ठो सो ! (कीदृशो दृष्टस्स: ?) ।
मिलि- दीव्यन्नभिप्रेयसि काञ्चनाक्षान् तदीयवस्त्रान्तमिलत्स्वचेलः ।
कस्तूरिकापङ्कविमिश्रहृद्यकाश्मीरसंलिप्तसुगन्धिवक्षाः ।
कासा - तत:?
मिलि-सा मतिमती सुदती व्रताङ्गीभूतपूजाव्याजेन समानयन्ती समस्तं भोग्यवस्तुजातमतर्पयत् कन्दर्पदर्पहरणचणवपुषं कान्तम् ।
विदू-पुव्वं एतस्स भइणीपडिमं आराहिअ तस्स फळं ळद्ववई अज्ज इमस्स आराहणं एव्व ।
(पूर्वं एतस्य भगिनीप्रतिमामाराध्य तस्य फलं लब्धवती अद्यस्याराधनमेव ।
कासा-तत: |
मिलि-ततोऽहं विधृतसैरन्ध्रीवेष: निशान्तं तदध्यवात्सम् ।
विद्--तुह समाराहणस्स कोमुईसही केवळं तुमं पुरिसं मुणंती भवे ।
(तव समाराधनस्य कौमुदीसखी केवलं त्वां पुरुषं जानती भवेत्) ।
कासा। -तत:?
मिलि–अनन्तरम् !

स्वल्पावशिष्टं व्रतकालमस्या ज्ञात्वा दुराशः कलभः स कामी
सञ्जीचकारातिकुतूहुलेन समस्तवस्तूनि विवाहहेतोः
उत्तानितध्वजमुदञ्चिततोरणश्रीनिर्मृष्टसौधतलनिजैितचन्द्रशोभम् ।
देशान्तरागमितराजकदम्बरम्यं तत्पतनं पटहनादविघुष्टमासीत्।


कासा–अहो प्रमादनिदानम् । तत: ?
मिलि-तदनु वयस्यो विज्ञाय प्रज्ञावान् कलभप्रवृत्तिं सह् सम्मन्त्र्य कान्तया तया यातया कातरतां त्रियामयां निगूढं निर्गत्य गन्तव्यं स्वपुरमिति निरवैषीत् ।

87