पृष्ठम्:पद्मिनीपरिणयः.pdf/१०६

पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये अष्टमोऽङ्कः

मिलि-

कलभः केशहस्ते तं गृहीत्वा क्रोधभीषणः ।'
निबध्य हस्तयोः स्तम्भे निहन्तुं खड्गमग्रहीत्


कासा-वत्स !

तथाविधां दैववशाद्दशां तां प्रपद्य पश्यन्तमहो दिशान्तम्
स्वरक्षकं कञ्चिदवाप्तुकामं त्वां चिन्तयन्नद्य शुचाऽन्वितोऽस्मि


मिलि--भद्र ! ततः ।
तदात्वे सरभसं हिमानी नाम कापालिकी समुपेत्य कलभं न्यरुन्ध हन्त सद्यः संहारात्।
विद्--दिट्ठीए समाअदा हिमाणी । (दिष्ट्या समागता हिमानी) ।
कासा-सखे ! किं प्रलपसि त्वमनालोच्य किमपि । सः पापा हिमानी प्रतिकूला केिलास्माकम् । अत एव सद्यस्संहारादिति उक्तं मिलेिन्देन । भद्र ! ततः ।
मिलि--तदा कौमुदी व्यलापीदेवम् ।
कासा-हा ! परुपमपि श्रवसोः तस्या विलापं शुश्रूयते चेतः ।

मिलि-

हा ! नाथ ! त्वं सुकृतिजनताग्रेसरत्वाच्चिरायु
र्भूत्वाऽपीह प्रबलदुरितामल्पपुण्यामवाप्य
मां क्षीणायुर्भवसि भवतो विप्रयोगः कथं मे
सह्यो मह्यामहह गरलं भक्ष्यन्ती म्रियेऽहम् ।। इति ।।


विदू-जुत्तं उत्तम् । (युक्तमुक्तम्) ।
कामा-सखे! एतादृशो विलापः श्रुतो यदि कलभेन,महान्तं रोषं तस्य जनयेत्खलु ।
विद्-सो रुठ्टो जदि सीसं घट्टेदु सिळाए । (स रुष्टो यदि शीर्षं घट्टयतु शिलायाम्)।
कासा--भद्र ! ततः किं कृतवती हिमानी ।
मिलि–पादयोर्निपत्य कलभमेवमयाचिष्ट ।

उपास्यते भद्र चिराय भद्रकाली मया मन्त्रजपेन देवी
तस्यै जपान्ते बलिरर्पणीयः सत्यं युवभ्यामतिसुन्दराभ्याम् ।।


तत्र कापि तरुणी मया निर्दिष्टा । तदर्थं मह्यमेष दातव्य इति ।