विद्-(स्वगतम्) वअस्सस्स सोअसंतीए एवं हासजणअं वअणं भणेमि । (वयस्यस्य शोकशान्त्यै एवं हासजनकं वचनं भणामि) । (प्रकाशम्) सच्चं एदं मए अणुहूदं पुव्वं रहस्सत्थळे । मह गोतख्खळणेन कोवं पत्ता घरिणी अण्णं रज्जुं अळहन्ती दीहतरेण णिअथणजुअळेण मं बद्धवदी । तदाणिं मए सुमरिदे हणुमंदे सज्जो बन्धमोख्खो आसि । (सत्यमेतत्। मया अनुभूतपूर्वं रहस्यस्थले । मम गोत्रस्खलनेन कोपं प्राप्ता गृहिणी अन्यां रज्जुमलभमाना दीर्घतरेण निजस्तनयुगलेन मां बद्धवती । तदा स्मृते हूनमति सद्यो बन्धमोक्ष आसीत्) ।
कासा-(विहस्य) किमपि भद्र!
- पद्मिनीं भास्करेणेव सङ्गतां द्योतितां यथा ।
- तथाऽहं कौमुदीसंगशोभितं तं न दृष्टवान् ॥
- पद्मिनीं भास्करेणेव सङ्गतां द्योतितां यथा ।
ततः किमाचरितवती भद्रा कौमुदी ?
मिलि-ततः सा हिमानीमुपसृत्य वाचमेवं वदति स्म ।
विद्-कहम् ? (कथम्) ।
मिलि-‘अम्ब! हिमानि,भद्रकालीतृप्तये निर्दिष्टां युवतीं परित्यज्य मामेतत्पदे निधे'हीति।
कासा--हृन्त ! वत्से प्रणयो निरतिशयः कौमुद्याः । ततः ।
मिलि–अथ पाषण्डा सा रण्डा तन्नाङ्गीचकार ।
विदू-किं पच्चुत्तरं दिण्णम् ? (किं प्रत्युत्तरं दतम् ? )।
मिलि--- अयि ! निर्दिष्टां परित्यज्य भवत्यास्समर्पणं देवी नोरीकरिष्य ' तीति ।
कासा---तत: । कलभः कीदृशः ।
मिलि- स्वकृते चिरमानीता रक्षितेयं हि कौमुदी ।
- कान्तं कामयते कञ्चिदिति तस्यै चुकोप सः ॥
विदू-हदओ कळहो कळहप्पियो कोमुइं कामअन्तो चिळादो ताए मणं अण्णपुरिससत्तं मुणन्तो कुदो जीवइ ।। (हतकः कलभः कलहप्रियः कौमुदीं कामयमानश्चिरात् तस्याः मनः अन्यपुरुषसक्तं जानन् कुतो जीवति ? ) ।।
कासा-किमकार्षीत् मत्तः कळभः ?
5
91