मिलि--तामपि निगलितबद्धपदां बन्दीकृतवान् ।
कासा-
वत्से ! वत्से ! मम कृतमहास्त हसुक्लिन्नचित्तां
तां त्वां बद्धौ कळभहतकेनाद्य ते वल्लभञ्च ।
मोक्तुं भद्रे त्वरितमपटोर्मानसं मे समेति
व्रीलां शोकं विपुलमधिकां दीनताश्चानुकम्पाम् ॥
अधिका मम पुत्र्यास्त्वमधुना वधु नाऽसि किम् ?
यतस्त्वन्मूलमेव स्यात् सन्ततेर्मे प्रवर्धनम् ॥
भवेत्समुल्लासकरो यदीह विकासशोभी कुमुदाकरो मे ।
त्वमेव तं कर्तुमलं विलासभाजं कथं त्वां विषहे विदूनाम् ॥
विदू-वअस्स! तुद्द अदिभूमिं गओ स्णुसाए सिणेहो । (वयस्य ! तवातिभूमिं गतः
स्नुषायां स्नेहः ) ।
कासा-सखे !
तनुजः सुकृतेन यावता सुगुणाढ्यो भुवि लभ्यते जनैः ।
तत एव शताधिकेन हि प्रतिलभ्या भवति स्नुषा सती ।।
विदू-मह सुझ्देण कापि वहू ळद्धा सुहगुणा । जा अदिभोअणेण मह अदिसाररोओ भवेत्ति संकाए मिदं एव्व भोअणं विदरइ । दन्तहीणत्तणेण भख्खणं ण खादिस्समित्ति किंवि भख्खणं ण समप्पेइ । इत्थियाभोगेण उह्णपीडा भवेत्ति संकाए मह घरिणीए ममस्सिं विरोहं उप्पादेइ । (मम सुकृतेन कापि वधूर्लब्धा शुभगुणा । या अतिभोजनेन मम अतिसाररोगो भवेदिति शङ्कया मितमेव भोजनं वितरति । दन्तहीनत्वेन भक्षणं न खादिष्यामीति किमपि भक्षणं न समर्पयति । स्त्रीभोगेन उष्णपीडा भवेदिति शङ्कया मम गृहिण्या मयि विरोधमुत्पादयति ) ।
कासा-सखे ! अलं विस्तरेणू।
मृत्योर्मुखे वर्तत एव वत्सः स्नुषा तु तत्प्राणनमात्रजीवा ।
कालोऽप्यतीतः सह सेनया मे याने विजेतुं किमहं करोमि ॥
विद्-वअस्स! तुह जामादा बुद्धिसाळी खु । भूमिघरगदं तं आणीअ मंदइदव्वं ।
(वयस्य! तव जामाता बुद्धिशाली खलु। भूमिगृहगतं तमानीय मन्त्रयितव्यम् ) ।
92