॥ अथ नवमोऽङ्कः ॥
(नेपथ्ये )
अलं सायंकालप्रतिनियतवादित्रनिनदै-
रलं नृत्तैर्गीतैरलमलमलं वन्दिनुतिमिः ।
यतः पुत्रोदन्तं नृपतिरवकर्ण्याद्य नितरां
विदूनः पुत्रीं स्वां पुनरपहृतां ज्ञास्यति तथा॥
(इति चूलिका )
(ततः प्रविशति भ्रमरिकया च अरुणेन च अनुगम्यमानो भास्करः)
भास्क--सखे ! किमेतदापन्नमतर्कितं व्यलीकम् ?
अरुणः--(स्वगतम्) हा ! कथं समाधातुं शक्यो वयस्य: मह्यात्यामस्यां विपत्तौ !
(प्रकाशम्) र्कि ब्रवीमि मन्दभाग्यः ।
भ्रम-हळा ! कहिं गदासि ? (हळा ! क्व गताऽसि ?)
अरु-अलमावेगेन । निशान्तं प्राप्य सुशान्तं नृपं पश्यामः । (इति परिक्रामन्ति )
अरु-(पुरोऽवलोक्य )
विदितसुतदशोऽयं काममार्तान्तरङ्गः
सविधगतजनास्ये केवलं दत्तचक्षुः ।
कथमिव तनुजायास्तामवस्थामसह्यां
मृदुतरमनसाऽग्रे बोधनीयो जनेन ॥
भास्करः--
शुद्धान्तचारिजनमात्रपरीतपार्श्वो
गण्डस्थलीनिहितसंश्लथवामपाणिः ।
निःश्वाससन्ततिभृताधरशोणशोभ:
पूज्यो विचारजलधौ विनिमग्नचित्तः ॥
( प्रविशति यथानिर्दिष्टः कासार: )
कासारः--
आनुकूल्ये प्रवृत्तोऽपि विधिर्विद्वेषिसम्भृतेः ।
अचिरान्प्रातिकूल्ये मे समुद्युक्त इवाधुना ॥
94
� |