पृष्ठम्:पद्मिनीपरिणयः.pdf/११३

पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

वेगेन धावितुमना अपि मन्दमदं
ताद्दङ्नितम्बकुचकुम्भभरेण याता ।।


भ्रम-हा सहि ! कहिं गदासि मं उज्झिअ ? तुह दम्सणं विणा मे स्वणो वि जुअसरिसो खु । (हा सखि! क्व गताऽसेि ममुज्झित्वा । तव दर्शनं वेिना मे क्षणोऽपि युगसदृशः खलु )

कासा-

वत्से विहारसमयेषु वराटिकाभि-
गलीः प्रतार्य वचसा ग्लहमाददानाम् ।
त्वां वा स्मरामि तव सोदरमद्य जित्वा
' क्रीडासखानहह तद्भुजवाहनं वा ॥


भ्रम-हळा ! तस्सि कीळासमए अश्लाणं मिहो खणेखणे कळहो सिणेहो वा भवे खु ।
(तस्मिन्क्रीडासमये अावयेोः मिथः क्षणेक्षणे कलहः स्नेहो वा भवेत्खलु) ।
भास्क-प्रिये !

हा त्वं मुरारिदयितां हृदि भावयन्ती
हस्ताञ्जलिस्थकुसुमा दरमीलिताक्षी
ईषच्चलत्किसलपच्छविदन्तचेला
दृष्टाऽद्य तां कथमहो इह विस्मरामि


कासा-

वत्सौ विदित्वाऽपि वशं गतौ तौ मृत्योः कथं चित्त मदीय पाप
न दीर्यसे हन्त तवेह सृष्टिर्लोहेन वा किं पविना न जाने ॥
(इति मूर्च्र्छति।)


भ्रम-(वीजयित्वा) हद्धि ! कुदो सअळळोअसन्तावहरो सहीतादो ण उच्छसिइ ।
(हा धिक् ! कुतस्सकललोकसन्तापहर सखीतातो नोच्छ्वसिति)। (इति रोदिति)
भास्क-सखे !

भ्रात्रादिमप्रियसुहृज्जननिर्विशेषं
तातस्य चात्र तनुते सुखमात्मजाता ।
तस्याः कृतेऽयमिह मूर्छति चेदनन्य-
लभ्यं सुखं तदनुभूय भवामि कीदृक्
(इति एततेि)


96