पृष्ठम्:पद्मिनीपरिणयः.pdf/११८

पुटमेतत् सुपुष्टितम्
1952]
श्रीपद्मिनीपरिणये नवमोऽङ्कः

संवीक्षते न बिसमत्ति पिबत्यपो नो
हंस: खपोषणरतां दयितामपश्यन् ।


इति मोहं गतः )


अरु--

दशवदनहृतायां मैथिलस्यात्मजायां
दशरथनृपपुत्रो यामवस्थामवाप ।
अनुभवति सग्वा मे तामवं किं विधेयं
पुनरिह तु सुमित्रावत्य पावं श्रयामि ।।


( इति भास्कमवलम्बते )


भास्क-- (ससम्भ्रमं दिशो वीक्ष्य ) सखे ! दृश्यते सर्वतः प्रेयसी ।

क्रीडन्ती सा क्वचन तरुणी कन्दुकैदृक्पथे में
पुष्पं हस्ते कश्चन दधती लक्ष्यतेऽलङ्करिष्णुः ।
अन्यत्रैषा मम करतलान्नागवल्लीं गृहीत्वा
वक्त्रे हर्षादिह धृतवती मन्मुखे तन्वतीयम्


वयस्य ! कथमियमिदानीं क्वापि न दृश्यते । कश्चिदेनां गृहीत्वा जलदरूपेण विद्युतामिव नयति वियति । तदहं तमनुगम्य निवर्तयामि । (इत्युत्प्लवते )
अरु---सखे ! किमुन्मत्तभूतोऽसि ?
भास्क -आ: ! ज्ञातम् । वर्तते पद्मिनीं भूसद्मनि । अद्य स्वस्थोऽस्मि । किंमपि पृच्छामि कस्त्वम् ? कुत आयासि ? अपि त्वया दृष्टपूर्वा पद्मिनी ?
अरु–किं प्रलपसि ?
भास्क--आः, सखा खलु भवान् । सखे पिङ्गल ! क्व मे सखा अरुणः ?
अरु-अहमेवारुणः । भास्क--पिङ्गल: कुत्र ?
अरु–पर्यवस्थापयात्मानम्।
भास्क-किं प्रलपामि ?
अरु-तथा !

101