पुटमेतत् सुपुष्टितम्
XIII.2
JOURNAL OF S.V. ORIENTAL INSTITUTE
- तां पद्मिनीं सरभसं कुमुदाकरं च
उदयधरकासारौ---( ससम्भ्रमं ) ततस्ततः।
काशा---हन्तुं गतः
कासा--हा !
शार–भण भण ।
- हत इवाजनि भास्करेण ॥
काश--तत: |
शार---क्वचिन्निलीने कळभे विस्मिताः शुद्धान्तवृद्धाङ्गनाः पुरस्कृत्य कुमुदाकरस्य कौमुदीं शरणं गता उदयधरात्मजम् ।
कासा--(सहर्षं ) ततः ।
काश–
- यथा राजति ते पुत्री भास्करं प्राय भास्वरम् ।
- तथा कासारराजेन्द्र तव पुत्रश्व कौमुदीम् ॥
शार---तत: ।
काश-
- जम्बत्योर्युगलं श्रीमद्व्योमयानं समुन्नतम् ।
- आरुह्यानीयते व्योम्नि भृतैर्नात्यन्तवेगिभिः ॥
- श्रीमद्विभीषणनिदेशपरोपनीतं तत् पुष्पकं समधिरुह्य यथा स रामः ।
- तद्वद्विमानमतितुङ्गमिदं प्रमोदादारुह्य भास्कर इह प्रतिभाति पत्न्या ॥
- कासारसूनुना सख्या सुग्रीवेणैव राघवः ।
- प्रदर्शयंस्तं तं देशं भास्करो वक्ति वल्लभाम् ॥
कासा-उत्कण्ठते द्रष्टुं वत्सान् मनः । कियद्दूरे वर्तन्ते ?
काश–दूरं नाम । दृश्यते नगरगोपुरोपरि व्योमयानम् ।
(प्रविश्य पटाक्षेपेण कञ्चुकी) ।
- देव्व्, गअणादो ओदरइ कोपि विमणराओ विज्जूपहापुंजी विअ । (देव! गगनादवतरति कोऽपि विमानराजो विद्युत्प्रभापुञ्ज इव) ।
(सर्वे सहर्षमुत्तिष्ठन्ति)
शार-(सर्वान् पुरस्कृत्य परिक्रामति ) ।
- ( प्रविशन्ति भास्करादयः विमानादस्पृष्टभूतलादवतरणं नाटयन्तः । प्रणमन्ति
- शारदानन्दादीन् गुरून् । सर्वे यथोचितमाशिषं प्रयुञ्जते ) ।
116