पृष्ठम्:पद्मिनीपरिणयः.pdf/१३३

पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा--सत्यमाह भवान्।

उद-

जगद्रक्षाविनिद्राभ्यां पितृभ्यां जगतां स्वयम् ।
जानकीरघुनाथाभ्यां नित्यमस्तु सुमङ्गलम् ।।

भास्करः--

दुष्टराक्षसशिक्षैकदक्षायाक्षविनाशिने ।
साधुरक्षाधुरीणाय मङ्गलं वायुसूनवे ॥

कुमु-

पक्षविक्षेपविध्वस्तसर्पदर्पाय पक्षिणाम् ।
सार्वभौमाय महते सर्वदास्तु सुमङ्गलम् ॥

अरुणः-- (भास्करं परिष्वजते) ।

मिलिन्दः-- ( कुमुदाकरं अलिङ्गति ) ।

(सर्वे सौत्सुक्यं परस्परमीक्षन्ते ) ।

शार-भास्कर ! किं ते भूयः प्रियमुपहरामि ।

भास्करः - -

सन्मार्गे स्थिरतां गतोऽहमनिशं भो: पावनेऽस्मिन्कला-
पूर्णोऽनुग्रहतस्तवाविकलतो ध्वस्तास्समस्तापदः ।
निर्वेिघ्नोऽजनि पद्मिनीपरिणयो योगीन्द्रसंसेवित
स्वामिन् धैर्यजिताक्ष नाथ भगवन्सर्वं मयाप्तं शुभम् ॥

तथापीदमस्तु :--- (भरतवाक्यम् ) ।

भूदेवा विलसन्तु सद्विधिरता नित्यं लसत्कीर्तयो
राजान: पृथिवीसुरार्चनपरा जीवन्तु सन्तश्चिरम् ।
नन्दन्त्वत्र पराः प्रजाश्च पशवो भूरस्तु सस्योज्ज्वला
भक्तिस्सुन्दरराजसूरिहृदये रामस्य संवर्धताम् ॥

इति पद्मिनीपरिणये दशमोऽङ्कः

॥रामदूताय नमः ।।

॥ शुभमस्तु ॥



1. सन्मार्गं इति । अनेन पद्येन भास्करस्य शारदानन्दं प्रति कथनं, करैः श्रीहनूमन्तं प्रति प्रार्थनञ्च प्रतिपाद्यते । .. शारदानन्द । पावने पवन स...... सन्मार्गे वियति परिशुद्धं साधुपथे च अन्यत्र । पावनं पवनकुमार ! धैर्येण जितं................. च ॥

118