पृष्ठम्:पद्मिनीपरिणयः.pdf/१५

पुटमेतत् सुपुष्टितम्
14

सर्वाभीष्टप्रदं सार्धं सह सख्या सदा सुधीः ।
कदाचन विभावर्यामुपायं योगिनः स्मरन् ॥ ४१ ॥

बहिर्निर्गत्य तं वेषं निर्धूय कुमुदाकरः ।
द्वारं जीमूतगेहस्य प्रविश्याबोधयच्च तम् ॥ ४३ ॥

दौवारिकैः समागत्य स्यालं तं कुमुदाकरम् ।
स्वागतं सादरं पृष्ट्वाऽप्राक्षीदागमकारणम् ॥ ४३ ॥

'स आह तातो दुस्स्वप्नं पश्यन् दुहितरि स्वयम् ।
पापशङ्की प्राहिणोन्मां भगिनी प्रेक्ष्यता’मिति ॥ ४४ ॥

इत्युक्तस्तेन जीमूत ऊचे क्रोधसमन्वितः ।
'पद्मिन्यां पापमाधातुं कः शक्नोति मयि स्थिते' ॥ ४५

तमुवाच स जीमूतं 'न वक्तव्यं तथा विभो ।
चिरान्मतेभको हर्तुं रन्ध्रान्वेषी सहोदरीम्' ॥ ४६ ॥

इत्युक्तस्तेन जीमूतः प्रेयसीवसतिं ययौ ।
तत्र भ्रमरिकारूपी मिलिन्दः केवलं स्थितः ॥ ४७ ॥

न दृश्यते मे भगिनीत्यरोदीत्कुमुदाकरः ।
जीमूतः सुतरां रुष्टो मत्तेभपुरमागतः ॥ ४८ ॥

वयस्येन समं तत्र ययौ च कुमुदाकरः ।
निपात्य वज्रं जीमूतो मत्तेभं तत्र तं न्यहन् ॥ ४९ ॥

भ्रमन् भीमोऽथ जीमूतः कौमुदाव्रतमन्दिरम् ।
अगमत्तं तु सा वीक्ष्य मत्तं भीता पलायिता ॥ ५० ॥

स मन्मथवशो मुग्धः पद्मिनीप्रतिमां दृढम् ।
आलिङ्ग्य च तदन्तःस्थयन्त्रनिक्षिप्त औषधैः ॥ ५१ ॥

उत्पन्नो ज्वलितो वह्निरधाक्षीत्तं दुराशयम् ।
दग्धोऽपि वह्निना तत्र जीमूतोऽसून्न चामुचत् ॥ ५२ ॥

कौमुदी सौधमारुह्य चरन्तं कुमुदाकरम् ।
वीथ्यां वीक्ष्य वयस्येन रह आहूय तं स्वयम् ॥ ५३ ॥

कच्चिन्निगूढं विन्यस्य रेमे तेन दिवानिशम् ।
अवगम्य रहस्यं तत् मत्तेभतनयो बली ॥ ५४ ॥