पृष्ठम्:पद्मिनीपरिणयः.pdf/२५

पुटमेतत् सुपुष्टितम्
[XIII. I.
JOURNAL OF S. V. ORIENTAL INSTITUTE

कासा- अलमप्रस्तुतेन । भो मन्त्रिन्! किं विसृष्टो निखिलनृपालबालप्रतिच्छन्दग्रहणाय चित्रशिल्पी ।

अनु- तस्य प्रत्यागमनसमयोऽपि अतिवर्तते (प्रविश्य दौवारिकः) जेदु देव्वो, ससिस्सो सारआणंदो पडिहारभूमिं गओ ।


(जयतु देवः । सशिष्यश्शारदानन्दः प्रतिहारभूमिं गतः)।

कासा- प्रवेश्यतां सोपचारम् ।

दौवारिकः- तह (इति निष्क्रम्य पुनः प्रविश्य) इदो इदो महाजोई । (तथा । इत इतो महायोगी) ।


(प्रविशति सशिष्यश्शारदानन्द:)

कासारः - उत्थाय प्रणमति ।

शारदानन्दः- विजयस्व धर्मात्मन् !

कासा- उपविश्यताम् ।

शार- (उपविश्य) अपि कुशलम्?

कासा- भगवन् ! भवदाशीर्गोचरतया सर्वेऽत्र कुशलिनः स्मः ।

चिन्तातपातपो[१]च्छुष्यदात्मनः पुरतो मम
भवदीयप्रसादोऽसावमृतासारतां गतः

अनु- भगवन्! प्रतिपालयामहे किमपि विज्ञापयितुकामा भवद्दर्शनम्।

शार - प्रायो विदित एवास्माभिस्सर्वोऽप्युदन्तः । अधुना कीदृशी जीमूतदुश्चेष्टा ।

कासा - यादृश्यस्मान् अहर्दिवमाकुलयेत् ।

शार - किं साक्षादभ्यर्थितोऽसि तेन कन्याम् ।

कासा - तदेवावशिष्यते ।

अनु - तदपि श्वः परश्वो वा भविष्यतीति मन्ये, यतस्तदमात्यस्य पुरोवातस्य पत्रिका तादृशी मया लब्धा ।

शार - स्वयमेवागमिष्यति किं जीमूतः ?

  1. तपातपः ग्रीष्मसम्बन्धी आतपः ।


8