पृष्ठम्:पद्मिनीपरिणयः.pdf/३०

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये प्रथमोऽङ्कः

शार--उदयधरात्मजे हृदयप्रवर्तनं विना अन्यत्र तव गुरुजन एव प्रभवति ।

पद्मिनी-(मुखं नमयति)

शार--(अपवार्य) राजन् ! विदितौ भवत्तनुजयोः प्रणयभाजनजनौ ।

कासा--(अपवार्य) भगवन् !

जीमूतकः प्रयतते स्वयमाप्तुमेतां
मत्तेभकः स च जिहीर्षति निर्निमित्तम् ।
सा कौमुदी त्वहह तस्य वशं गताऽऽसीत्
पुत्रौ मनोरथमिमौ कथमाप्नुतां तम् ॥

शार

यद्यानुकूल्यं विधिराप्नुयात् ते जीमूततः कश्चन वज्रपातः ।
मत्तेभकं नाशयतु क्षणात् तं जीमूतकं हन्तु [१]हरिः प्रचण्डः ॥

कासा-सर्वस्य भव्यस्य निदानं भवदाशीर्नः ।

(नेपथ्ये)

राजन्! विजयस्व, विजयस्व !
जीमूतकस्य विगमादिह भास्करोऽय-
मत्युन्नतं पदमवाप्य विराजमानः ।
तां पद्मिनीं विकसितां कलयत्यमन्दं
मत्तेभकोऽपि परिधावति तापतप्तः ॥

शार-कोऽयमस्मदनुकूलं व्याहरति ?

कासा-एष वन्दी विज्ञापयति माध्याह्निकसमयम् ।

शार-भद्रेयमुपश्रुतिः ।

कासा-सर्वं भवत्प्रसादात् ।

शार-भदौ, इह विहरतमव्याकुलौ । (तथेति तौ परिक्रामतः) ।

शार–राजन् ! पश्य पुत्रौ ।

  1. 'शिखी हरिश्च' इत्यपि पाठः ।
13