पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः
- जीमूतकः सत्वरमेतु नाम[१]महोत्सवा स्याद्वसुधा समन्तात् ।
- सञ्जातकीर्तिश्च दिशोऽप्यशेषा विद्युत्प्रदीपज्वलिता भवन्तु ॥
- जीमूतकः सत्वरमेतु नाम[१]महोत्सवा स्याद्वसुधा समन्तात् ।
पुरो-द्रुतमानीयतेऽयं मया । (इति निष्क्रान्तः) ।
कासा-(स्वगतम्) पुरोवातो भूत्वा पुरत इह मां द्राक् कलुषयन्
- प्रयातो जीमूतं पुनरपि तमत्राकलयितुम् ।
- मया किं कर्तव्यं झटिति स च मत्तेभहतकः
- समायातः क्रूरः किमिव मयि चेष्टेत मृदुले ॥
- प्रयातो जीमूतं पुनरपि तमत्राकलयितुम् ।
हन्त ! पुराऽस्माकमुपकृतवानपि [२]स्वर्णश्रीदानेन जीमूतः सम्प्रति मर्यादातिलङ्घनेन शोकार्तिकारी विप्रलभ्यः संवृत्तः ।
एष हि,
- [३]वर्षातिभीमा भुवि वाहिनीर्द्राक् प्रसारयन् हन्ति चराचराणि ।
- भिनत्ति भित्तीरपि दुर्गतानां धुनोति सर्वं सुमनोनिकायम् ॥
- [३]वर्षातिभीमा भुवि वाहिनीर्द्राक् प्रसारयन् हन्ति चराचराणि ।
(नेपथ्ये कलकलः)
कासा-हन्त केयं तिमरावृति:, यस्या भीतो जनः शब्दायते ।
(नेपथ्ये) वत्स! हन्यतामियं भवतः तिरस्कृतये जीमूतप्रवर्तिता तमोऽभिख्या दुष्टचारिणी ।
कासा-अयं शारदानन्दस्य कण्ठस्वर इव श्रूयते ।
(पुनर्नेपथ्ये) भगवन्! भवदनुग्रहात् क्षणाद् विनाशयामि तां पापीयसीम् ।
कासा-कस्यायं मधुरगम्भीरो ध्वनिः अभिनवतारुण्यारम्भरमणीयस्य पुरुषधौरेयस्य ?
(पुनः नेपथ्ये)यावत्स्वयं परिकिरन्निजगोसहस्रं
- वत्सो जवेन समवर्द्धत तावदेव ।
- वत्सो जवेन समवर्द्धत तावदेव ।
- सा पापिनी विलयमेति विलोचनं नः
- कामं प्रसीदति मनः कुतुकं दधाति ॥
कासा-नूनमिदं भास्करविलसितम्। (इत्युत्थाय प्रतीक्षते) (ततः प्रविशति सवयस्येन भास्करेणानुगम्यमानः शारदानन्दः ) ।
- ↑ महान् उत्सवो यस्याम् । महत् उत्सवाः गिरिस्रुतजलं यस्यामिति च । कीर्तिः=यशः पङ्कश्च ।
- ↑ स्वर्ण श्रीदानेन=आवश्यकाले धनादिदानेन, सुअर्णस् श्रीदानेन, सुष्ठु जलदानेन । अन्यदूह्यम् ।
- ↑ वाहिनीः = भयङ्करसेनाः नदीश्च । अन्यदूह्यम् ।
17