पृष्ठम्:पद्मिनीपरिणयः.pdf/३६

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये द्वितीयोऽङ्कः

शारदा-कथं ज्ञायते भास्करोऽयमिति ?
 कासा-रूपमेवास्य वदति भास्करोऽयमिति स्फुटम् ।

तां निहन्तुं तमोऽभिख्यां तस्मादस्मात्प्रभुश्च कः ? ॥

 एतस्य हि,वदनमधिकवेगादापगाधीशमध्यो-

द्गमनविगलितैणश्चन्द्रमाः शारदो नु ।
उत लसदरविन्दं प्रातरुन्मृष्टरेणुः
कुसुमविशिखलीलाकल्पितो दर्पणः किम् ॥
सञ्चिन्त्य सारसभवो मदनं स्वशिल्प-
नैपुण्यसूचकतनुं हरनेत्रदग्धम्।
जातं पुना रतिविलोचनमात्रलक्ष्य-
मेनं ससर्ज निरुपाधिमशेषदृश्यम् ॥

शारदा-राजन् । उदयधरजात एकः पुरुषमणिर्भास्करोऽयमिह नान्यः ।

कासारप्रभवैका स्त्रीरत्नं सा हि पद्मिनी नान्या ॥
किं बहुना ! बिभर्ति कमलोल्लासं पद्मिनी सा न संशयः ।
दधाति भास्करः श्रीमान्नारायणकलां खलु ॥

भास्क–(अपवार्य) वयस्य । जानासि किमस्य नन्दिनीम् ।
अरुणः-(अपवार्य) सखे! किं मे ज्ञातया तया । भवता अवश्यं ज्ञातव्येति ज्ञायते भगवद्वचसा । (सर्वे उपविशन्ति) ।
शारदा-राजन् । पुरोवातः किमागतः ?
कासा-आगत्य गतो द्रुतं जीमूताभिगमनं शंसन् मामाकुली कृत्य ।
भास्क-(अपवार्य) सखे । जीमूतागमनश्रवणेन मे मनः कुतोऽकाण्डे व्यथते ।
अरु-(अपवार्य) वयस्य ! पद्मिन्युपलम्भविघातशङ्कया ।
भास्क-किं जीमूतः प्रयतते तां प्राप्तुम् ?
अरु-तथाऽवगम्यते । प्रयततां नाम जडः ।

प्रवृत्ते शारदानन्दे भास्करोल्लासकारिणि ।
पद्मिन्यामेति साफल्यं किं जीमूतमनोरथः ?॥

19