॥ श्रीः ॥
श्रीविखनसगुरुभ्यो नमः
श्रीसुन्दरराजकविजीवितसङ्ग्रहः
श्रीवरदराजसङ्कलितः ।
श्रीमत्सुन्दरराजसूरिचरितप्रख्यापनायोत्सुक- |
इत्थम् अतीतेपु बहुषु वत्सरेषु अनन्तशयनसंस्थानन्तर्गते इलत्तूराख्याग्रहारे
आसीदत्र कुले सुधीर्वरदराजाख्यस्स कृष्णाम्बया |
अथ सुधीः सुन्दरराजतनुजन्मा वरदराजः सत्सन्तानोत्सवे व्रीहिदानादिभिर्भूसुरानानन्दयन् यथाविधि च जातकर्मोत्थाने समाचरन् सुसमय एनं वैष्णव्या पैतामह्या च शुभया आख्यया आह्वापयामास । ततः क्रमेण समेधमानमेधाधिलासं विजृम्भमाणतत्तत्कालीनलीलाविनोदं सर्वजनस्पृहणीयसर्वाङ्गसुन्दरं हृद्यसत्त्वोज्ज्वलन्मुखारविन्दं सुकुमारं कुमारं श्रीविखनोमुनीन्द्रमतमनतिक्रम्यान्नप्राशनादिभिस्समेधयामास । अयं वरदराजात्मजः श्रीमान् |
आबाल्यत: सर्वमनोहराभिर्गीर्भिस्सदा रञ्जितसर्वलोकः । |