प्रथ-मम्महो खु एत्थ लिहिदो । (मन्मथः खल्वत्र लिखितः)
द्विती-णो वट्टइ इमस्स करे इच्छुचाओ (नो वर्ततेऽस्य करे इक्षुचापः)
प्रथ-किं केसवो ?(किं केशवः ?) ।
द्विती-णो दीसइ हत्थे चक्कम् (नो दृश्यते हस्ते चक्रम्)
प्रथ-अत्थि खु हत्थे चक्कम् (अस्ति खलु ह्स्ते चक्रम्)
द्विती-सा चक्करेहा खु । (सा चक्ररेखा खलु)
प्रथ-अच्चरिअं फुष्फबाणमेतहीणो एसो मअणो । चक्काउहमेत्तहीणो माहवो ।
(आश्चर्यं पुष्पबाणमात्रहीन एष मदनः । चकायुधमात्रहीनो माधवः ।)
द्विती-अह्माणं भाअहेअं एव्व इमिणा रूपेण उवट्टिदम् ।
(अस्माकं भागधेयमेवानेन रूपेणोपस्थितम्) ।
प्रथ-तुमं केण वि उवाएण तं महाभाअं एदाए पुरो करेहि ।
(त्वं केनाप्युपायेन तं महाभागं एतस्याः पुरः कुरु) ।
द्विती-अत्थु, गच्छेम (अस्तु गच्छावः) ।
॥ प्रवेशकः ॥
(ततः प्रविशति वयस्यानुगतो भास्करः)
भास्क- जीमूते विमुखोऽपि भूपतिरसौ दाक्षिण्यमालम्बते
- कासारो यदनर्पणे हृदय किं तां द्रष्टुमुत्कण्ठसे ?।
- उत्कण्ठामथवा भजस्व तरुणीचेतोऽवगन्तुं यतः
- पुंसो यस्य वपुस्तदीयहृदयं प्रीणाति धन्योऽत्र सः ॥
अरुणः--(स्वगतम्) अभ्यधायि खलु मधुव्रतया साम्प्रतनुद्यानमण्डपमधिवसति पद्मिनीति । ततस्तां करोमि वयस्यनेत्रयोरतिथिम् । (प्रकाशं) सखे समन्तात्पश्यावः प्रमदावनश्रियम् । (परिक्रामतः) |
भास्क-सखे !
- जग्ध्वा तृणाङ्कुरचयं हरिणाः प्रियाभिः
- पीत्वा पयोऽतिविमलं विचरन्ति हृष्टाः ।
- जग्ध्वा तृणाङ्कुरचयं हरिणाः प्रियाभिः