पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये तृतीयोऽङ्कः
- कुसुमनिकरदीव्यद्वीरुदाच्छाद्यमाना
- विटपितटविचञ्चत्पञ्जरान्तस्थितानाम् ।
- विटपितटविचञ्चत्पञ्जरान्तस्थितानाम् ।
- शुकपिकमुखनानापत्रिणां हृद्यवाचां
- ततिभिरुपवनान्तर्भासते भद्रशाला ॥
- ततिभिरुपवनान्तर्भासते भद्रशाला ॥
- कुसुमनिकरदीव्यद्वीरुदाच्छाद्यमाना
अरु-तत्र दृश्यते कापि युवतिः सह सहचर्या ।
भास्क-सखे मार्गान्तरेण गत्वा वृक्षान्तरितौ जानीवः क्रमादेते । (उभौ परिक्रम्य तथा स्थितौ)
( प्रविशति मकरिकया सह पद्मिनी)
पद्मि-हला, कहं विणोदो मए मअणसरतावनप्ताए? (कथं विनोदो मम मदनशरतापतत्प्तायाः)
भास्क—
- शरीरविसरद्रुचा विजितचारुचामीकरा
- सुरालयकचाकचिक्षमकुचा पयोभृत्कचा ।
- सुरालयकचाकचिक्षमकुचा पयोभृत्कचा ।
- सुशारदनिशाधिपक्षतिविशारदस्वानना
- दृशा कृतकुशेशयावमतिरेति शातोदरी ॥
- दृशा कृतकुशेशयावमतिरेति शातोदरी ॥
- शरीरविसरद्रुचा विजितचारुचामीकरा
- हृदि न वहतु सत्यामुर्वशीगर्वलेशं
- त्यजतु झटेिति रम्भा विभ्रामारम्भमस्याम् |
- त्यजतु झटेिति रम्भा विभ्रामारम्भमस्याम् |
- व्रजतु विरतिमेव स्वावलेपाद्रतिस्सा
- युवतिषु गणनीया मेनका मे न कापि ॥
- हृदि न वहतु सत्यामुर्वशीगर्वलेशं
अरु-सखे ! कासारसंभवां पद्मिनीमेनां मन्ये ।
भास्क-कः संशयः ।
- अम्भोनीलीचिकुरनिकरा मीननेत्रा मृणाली-
- बाहुद्वन्द्वा सरसिजकरा चक्रवाकस्तनीयम् ।
- बाहुद्वन्द्वा सरसिजकरा चक्रवाकस्तनीयम् ।
- कम्बुग्रीवा द्युतिभरजलस्रोतसा पूर्यमाणा
- मन्ये धात्रा मदनसरसी केलये निर्मितेति ॥
- मन्ये धात्रा मदनसरसी केलये निर्मितेति ॥
- अम्भोनीलीचिकुरनिकरा मीननेत्रा मृणाली-
भ्रम-स हि! उपविसामो । (सखि ! उपविशावः) । (उभे उपविशतः) ।
भ्रम-स हि ! एदं चित्तपडं पेख्खंती विणोदेहि अत्ताणअम् ।
( सखि एतं चित्रपटं प्रेक्षमाणा विनोदयात्मानम्) । (इत्यर्पयति पटम्)
27