भास्क - रे [१]कापालिकापशद ! लोकाधरमात्रव्रणकारिन् । नाथवियुक्ताबलाजनहिंसक ! हसन्तीवञ्चितप्रभाव ! तिष्ठ पुरतो मे ।
- [२]करप्रतापः प्रकटीभवेच्चेत् कश्शक्नुयाद्धीरतरोऽपि सोढुम् ।
- तमोमयोऽग्रे मम भास्करस्य स्थातुं भवादृक्कतमोऽतितुच्छः ? ॥
पद्मि-(सहर्षम्) हला ! आकिदिसरिसो से पहावो । (हला ! आकृतिसदृशोऽस्य प्रभावः) ।
हिमा-हा ! किं एदं अच्चाहिदं । (हा! किमेतदत्याहितम् ।
(प्रविश्य)
अरु--सखे ! गृह्यतां [३]स्वधर्मः (इति ददाति चापम्) ।
भास्क–(आदाय तमानमयन्) । हतक ! पश्य, लभस्व भास्कराभिगमनफलम् ।
हिमा-णाह ! मा साहसं करेहि (नाथ ! मा साहसं कुरु) ।
पद्मि-अच्चरिअम् । (आश्चर्यम्) ।
अरु–यावच्छरासनमसौ विनमय्य वेगात्
- तीक्ष्णस्वगोनिकरमत्र किरत्यमन्दम् ।
हिमा-हा ! पिअ, किं गदोऽसि विवख्खवसम् ? (हा ! प्रिय, किं गतोऽसि विपक्षवशम्)।
पद्मि-सहि ! दइदो दाणिं भीमो विअ । (सखि ! दयित इदानीं भीम इव) ।
अरु- तावत् पलायनपरो न्यपतद्विभिन्नः
- पापस्स वज्रनिहतः शिखरीव भूमौ ॥
पद्मि-(सामोदम्) हला ! संवुतो दाणिं एसो मह जीविअदाई। (संवृत्त इदानीमेष मम जीवितदायी) ।
हिमा-हा ! णाह ! असरणं मं उज्झिअ किं गदोऽसि लोअन्तरम् (हा नाथ ! अशरणां मां उज्झित्वा किं गतोऽसि लोकान्तरम् । (इति रोदिति ।)
पद्मि-हला ! संभावेम णाहम् । (हला संभावयाव नाथम्) । (इति भास्करमुपसरतः ।)
- ↑ कापालिकत्वात्, ब्राह्मणयोगिपीडाकरत्वम् । विप्रयोगिनो विरहिणश्च । लोकेऽधराः, अपकृष्टः । लोकस्य दन्तच्छदश्च । हसन्ती हासकारिणी वनिता, हसन्तिकायन्त्रश्च ।
- ↑ करः किरणः, हस्तश्च । तमोमयः जडः, ध्वान्तरूपश्च ।
- ↑ स्वधर्मः = निजचापः, हिमनिवारणरूपश्च ।