पृष्ठम्:पद्मिनीपरिणयः.pdf/५४

पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये चतुर्थोऽङ्कः

भ्रम-किं जीमूओ आअदो ? । (किं जीमूत आगतः ? )

मधु-सो पावो दहमुहो विअ परिणेदुं जाणई अहि्लसन्तो आअदो ।

(स पापः दशमुख इव परिणेतुं जानकीमभिलषन्नागतः) |

भ्रम-अदो एव्व सही अहिअं वाउळा । (अत एव सखी अधिकं व्याकुला) ।

मधु-देव्वप्पसादादो ताए मणोरहो सिज्जउ । (दैवप्रसादात् तस्या मनोरथस्सिध्यतु ।

भ्रम-(सप्रत्यभिज्ञम्) दिट्टिए सुमरिअह्मि सही ळच्चीसमाराहणे पउत्ता मं अन्तेउरठ्ठिदं पडिमं आणेहित्ति आणत्तवई खु । ता गमिस्सम् । तुमं पुण कहि पत्थिआः ।

(देिष्ट्या स्मारिताऽस्मि । सखी लक्ष्मीसमाराधने प्रवृत्ता मां 'अन्तःपुरस्थितप्रतिमां आन'येति आज्ञप्तवती खलु, तस्मात् गमिष्यामि । त्वं पुन: क्व प्रस्थिता ?)

मधु-तुए समं किंवि मन्तेदुम् ।(त्वया समं किमपि मन्त्रयितुम्) ।

भ्रम-‌ कहेहि (कथय) ।

मधु-जेणकेणवि उवाएण भक्खरो पदुमिणीए जोअणीज्जोत्ति पत्थिदह्मि अरुणेण । तत्थ को उवाओ कादव्वेत्ति ।

(येनकेनाप्युपायेन भास्करः पद्मिन्या योजनीय इति प्रार्थितास्मि अरुणेन । तत्र क उपायः कर्तव्य इति) ।

भ्रम-एदेण अरुणवअणेण सो तरुणो पदुमिणीनिमित्तं मअणेण अहिअं पहरीअदिति मुणेमि ।

(एतेन अरुणवचनेन स तरुणः पद्मिनीनिमित्तं मदनेनाधिकं प्रह्रियत इति जानामि )।

मधु-को संसओ ! (कस्संशयः ?) । (संस्कृतमाश्रित्य) ।

एष खलु - श्वसिति दीर्घतरं परिताम्यति प्रतिवचः प्रददाति न चेरितः ।

क्वचन दिश्यभिधावति मत्प्रिये दिश कटाक्षमवेति मुहुर्वदन् ॥

भ्रम-(विचिन्त्य) तत्थ एसो उवाओ । पुडमं सिविआए ळच्छीपडिमं आरोविअ तस्स पडिमादस्सणववदेसेण नेदूण सविहे णिऊडं तं वि तत्थ णिवेसिअ परेहिं अविदिअं पूआघरं पावइस्सम् ।

(तत्रैष उपाय: । प्रथमं शिबिकायां लक्ष्मीप्रतिमामारोप्य तस्य प्रतिमादर्शनव्यपदेशेन नीत्वा सविधं निगूढं तमपि तत्र निवेश्य वरैरविदितं पूजागृहं प्रापयिष्यामि) ।
37