मधु-साहु चिन्दिअम् । तत्थ णिऊडं पूआसमए ठाऊण तदो ळहेदु मणोरहं भद्दो ।
- (तत्र निगूढं पूजासमये स्थित्वा ततो लभतां मनोरथं भद्रः) । (इति निष्क्रान्ते)
॥ विष्कम्भः ॥
(ततः प्रविशति पद्मिनी)
पद्मि-हञ्जे ! दीपजादं सव्वं उद्दीवेहि । (हञ्जे ! दीपजातं सर्वं उद्दीपय) ।
चेटी-जहा आदिसइ भट्टदारिआ । (यथाऽऽदिशति भर्तृदारिका) ।
(उद्दीपयति दीपान्)
पद्मि-(स्व) देवीसमाराहणस्स किदे वल्लहादो णिवट्टिदं वि हिअअं पुणोवि धावइ तस्सिम् । किं करिस्सम् ? । (देवीसमाराधनस्य कृते वल्लभान्निवर्तितमपि हृदयं पुनरपि धावति तस्मिन् । किं करिष्यामि ?) । (नेपथ्ये वाद्यरवः) ।
पद्मि-सही भमरिआ देवीपडिमं आणेदि । (सखी भ्रमरिका देवीप्रतिमां आनयति) ।
(प्रविशति शिबिका पुरस्कृत्य भ्रमरिका)
पद्मि-हळा ! कुदो विळंबो ? । (हळा ! कुतो विलम्बः ?) ।
भ्रम-तस्स राअउमारस्स पडिमासण्णिहावणकिदे ।
- (तस्य राजकुमारस्य प्रतिमासन्निधापनकृते) ।
पद्मि-किं अत्थि तस्स कोऊहळं पडिमादस्सणे ? । (किमस्ति तस्य कौतूहलं प्रतिमादर्शने ?)।
भ्रम-ण केवळं पडिमादस्सणे ? । किंदु पूआदस्सणे पूआफळळाहे अ ।
- (न केवलं प्रतिमादर्शने किन्तु पूजादर्शने पूजाफललाभे च) ।
पद्मि-होदु, किं कादव्वम् । (भवतु किं कर्तव्यम्) ।
भ्रम-(संस्कृतमाश्रित्य)
- अन्तर्हितोऽभृत्सखि भास्करोऽद्य स्नाहि प्रदीपं पुरतो निधाय ।
- दिव्यासनेऽहं प्रतिमां निधाय माल्यैश्च भूषाभिरलङ्करिष्ये ।
पद्मि-हळा ! चित्तदस्सणेण किदबीअविण्णासो दइदस्स आअमणसवणेण अंकुरिदो पच्छक्खाक्ळोअणेण पल्लविदो तुहिणमण्डलसंहारेण कुसुमिदो मह मणोरद्दरुक्खो कआ फळित्सदि ? । (सखि ! चित्रदर्शनेन कृतबीजविन्यासः, दयित्स्यायमनश्रवणेन