पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये चतुर्थोऽङ्कः
अङ्कुरितः, प्रत्यक्षावलोकनेन पल्लवितः, तुहिनमण्डलसंहारेण कुसुमितो मम मनोरथवृक्षः कदा फलिष्यति ?) ।
भ्रम-हळा ! देविं आराहेहि । तक्खणं तुह मणोरहो फळिस्सदि । (हळा ! देवीमाराधय, तत्क्षणं तव मनोरथः फलिष्यति) ।
पद्मि-अस्थु (अस्तु) । (इति स्नातुं निष्क्रान्ता) (भ्रमरिका शिबिकाद्वारमुद्घाटयति) ।
भ्रम-अज्ज, निग्गमिअ पूआभवणं पेख्ख । (आर्य निर्गम्य पूजाभवनं पश्य) ।
(भास्करः शिबिकान्तरान्निर्गत्य)
- अहो पूजासदनरामणीयकम् !।
- उपरि शुभविचित्रोल्लोचमध्यप्रलम्बि-
- स्फुरदमलसुवृत्तोद्दीप्तमाणिक्यगोळैः ।
- स्फुरदमलसुवृत्तोद्दीप्तमाणिक्यगोळैः ।
- कनकमणिविलासिस्तम्भसंलग्नबिम्बै-
- रिव सुजनितजीवैर्नेत्रमेतद्धिनोति ॥
- उपरि शुभविचित्रोल्लोचमध्यप्रलम्बि-
अपिच,
- मृगमदतुहिनाम्भोमिश्रिते स्निग्धरूपे
- नवमलयजपङ्के मालतीमल्लिकासु ।
- नवमलयजपङ्के मालतीमल्लिकासु ।
- विसरदगरुधूपे संलुठन् वातपोत-
- श्चरति परित एष प्रीणयन् नासिकां मे ॥
- मृगमदतुहिनाम्भोमिश्रिते स्निग्धरूपे
(भ्रमरिका प्रतिमां गृहीत्वा प्रतिष्ठाप्य कनकपीठे परिष्करोति) ।
भास्क-अहो ! सर्वपथीना भ्रमरकचातुरी, यद्राजतेतरामनयाऽलङ्कृता भगवती गरुडध्वजप्रणयिनी । यैषा,
- उत्तानवामपदजानुकृतैकहस्ता
- पाणौ परत्र दधती नलिनं तदन्यम् ।
- पाणौ परत्र दधती नलिनं तदन्यम् ।
- पादं प्रसारितवती विनिकुञ्च्य किञ्चित्
- सम्भूषिता मणिकिरीटमुखैरनर्घैः ॥
- उत्तानवामपदजानुकृतैकहस्ता
भ्रम-अज्ज ! इदो उत्तरभाअवट्टिसाळन्तरं पविसिअ तिरोहिदो वाताअणेण पिअसहीपउत्तिं आळोएहि । (आर्य ! इत उत्तरभागवर्तिशालान्तरं प्रविश्य तिरोहितः वातायनेन प्रियसखीप्रवृत्तिमालोकय ) ।
39