पृष्ठम्:पद्मिनीपरिणयः.pdf/६

पुटमेतत् सुपुष्टितम्
5

इत्थं भुवनविख्यातः श्रीसुन्दरराजाचार्यः पित्रोपदिष्टं श्रीमारुतिमन्त्रं विधिवज्जपन् अतित्वरितमेव पवननन्दनकरुणालहरीसंवर्धितः सीतालक्ष्मणहनुमत्समेतं श्रीरामचन्द्रविग्रहं भक्त्या परमया यथाविध्याराधयति स्म । श्रीमान् पावमानिरेतदाराधनसन्तर्पितः स्वप्ने जागरे दीपज्वालायां वाऽऽविर्भूयास्मै कालत्रयवार्तां साक्षान्निगदति स्म । भूतप्रेतादयः सुन्दरराजाचार्यनामश्रवणमात्रेण पलायन्तेस्म । इत्थं द्वितीयमिव कालिदासं सुधीवरेण्यं पार्थसारथिनामा कश्चित्(कलेक्टर्) प्रभुः श्री शङ्करालयनिकेतनः एट्टयापुरीनाथाय निवेद्य संस्कृतभाषाभ्यासाय स्वनिकटमानीय द्वित्रिवर्षाण्यभ्यस्यन् गैर्वाणीभाषायामतिनिपुणः कविरप्यासीत्।

कदाचित्प्रभुनिकटात्स्वपुरीं प्रति प्रस्थितः अनुजलक्ष्मीनारायणसहितः आरूढशकटोऽस्मदाचार्यः मध्येमार्गं निशीथिनीप्रथमयामे चोरैरावृतेऽनसि, शाकटिके पाचकं च वेपमानाङ्गे, अञ्जनानन्दनं साञ्जलि प्रार्थयति स्म । सद्यश्शकटं परितः दीपदण्डचतुष्टयमदृश्यत परमोज्ज्वलम् । सद्यः पलायिताश्चोराः । दृतं प्रचलितं शकटम् । दीपदण्डा नैनाग्रहारावध्यदृश्यन्त । तत्रान्तर्हिता अभवन् । स्वपुरं प्राप्य महात्मा अनुगतैर्वृत्तमेतदद्भुतं बन्धुभ्योऽकथयत् । सर्वेऽप्याकर्ण्यानन्दाब्धौ मज्जन्ति स्म ।

इत्थं भुवनभागधेयपरिणामाऽस्मदाचार्यवर्यप्रभावं कर्णाकर्णिकया निशम्य श्रीशालिवाटीनगरप्रधानप्राङ्विवाकवरेण्यः मूर्तिमानिव सुगुणसमुदायः औदार्येऽद्वितीयः बहुभाषावेदी कीर्तिमदग्रेसरः श्रीकृष्णस्वामिशर्मा प्रभुमणि: स्वनगरीमेनमानाय्य देवभाषावर्धनायाऽऽचार्यं वव्रे । तं सुधीरङ्गीकृत्य शिष्यपदे अचिरादेवान्तेवासिनं सर्वशास्त्रमर्मवेदिनं चक्रे । तत्र निवसन्नेव कविमणिः श्रीकृष्णार्याशतकं श्रीरामभद्रविजयचम्पुकाव्यं श्रीवैदर्भीवासुदेवनाटकं च प्रणिनाय । एते ग्रन्थाः निर्माणानुक्षणमेव श्रीकृष्णस्वामिप्रभुवरेण मुद्राप्य प्रख्यापिताः । तदन्तरा प्रभुमणिरयं स्वयं प्रश्नोतररामायणं बालनीत्याख्यग्रन्थद्वयञ्च निर्मायास्मत्कविमणिना परिष्कृत्य मुद्रितवान् । किञ्च स्वायत्तैः राजभिः प्रभुवरेण्यैश्च महात्मानमेनं बहुमानयामास ।

एवं शालिवाटीपुरी शाखानगर कैलासपुरमधिवसति वरदराजनन्दने श्रीलक्ष्मीराज्ञीप्रियनायकः श्रीकेरलवर्मदेवः कविकुलसार्वभौमः श्रीकंसवदाख्यं चम्पुकाव्यं निर्माय स्वप्रियमित्रमणये श्रीकृष्णस्वामिप्रभवे प्रैषयत् । तद्विज्ञायास्मदाचार्यः तस्य व्याख्यां काञ्चिन्निर्माय स्वान्तेवासिने ज्ञापयामास । स तु तदैव सामोदं व्याख्यया तया सह ग्रन्थवरं केरलवर्मदेवाय भूयो व्यजिज्ञपत् । स कुशाग्रवार्देवः निरीक्ष्य व्याख्याचातुर्यं सद्यः प्रहर्षातिशयेन स्वसंस्थानान्तर्गताय सुन्दरकवये महान्तं पारितोषिकं प्रादात् । अपि च निजोत्तममैत्रीसाम्राज्यनिरूपकपत्रिकारत्नेन सहानतिचिरादेव नागरलिपिमुद्रितकंसवधचम्पुकाव्यस्य शतं पुस्तकानि च प्रेषयामास ।