- किञ्च, तरवारिकरा वीरा धीराः कञ्चुकिनोऽधुना ।
- रुन्धन्तु मन्दिरद्वारे इन्दिराया जनं द्रुतम् ॥
- रुन्धन्तु मन्दिरद्वारे इन्दिराया जनं द्रुतम् ॥
- किञ्च, तरवारिकरा वीरा धीराः कञ्चुकिनोऽधुना ।
कासा-सखे ! तथा आदिश्यताम् ।
विदू-तह (तथा) (इति निष्क्रान्तः)
शार-भद्र ! वत्सो भक्तः कुमुदाकरः सह वयस्येन मिलिन्देन समायातु ।
कासा-कोऽत्रभोः । (प्रविश्य कञ्चुकी) एषोऽस्मि ।
कासाः-आहूयतां वत्सः सहवयस्यः ।
कञ्चु-तथा (इति निष्क्रान्तः) । (प्रविश्य विदूषकः) किदो णिदेसो । (कृतो निदेश:)
कासा-कथं सखे ?
विदू-गोवणिज्जं गूहिदुं जाणेमि अहम् । मुणइ मह घरिणी अ ।
- (गोपनीयं गूहितुं जानाम्यहम् । जानाति मम गृहिणी च) ।
कासा-सखे ! यत्किञ्चिद्रहस्यं कथितं तव गृहिण्यां अवश्यं कथयिष्यसीति मन्ये ।
विदू-को संसओ । ताए ण कहिदं जदि णिद्दा मज्झ ण आअमिस्सइ ।
- (कस्संशयः । तस्या न कथितं यदि निद्रा मम नागमिष्यति ।)
शार-(विहस्य) हन्त !
- रहोवृत्ताम्बुपूरस्य गभीरान्मनसो नृणाम् ।
- बहिर्निस्सृतये जज्ञे प्रणाली प्रमदाश्रुतिः ॥
- रहोवृत्ताम्बुपूरस्य गभीरान्मनसो नृणाम् ।
कासा-सखे ! किं श्रुतं भगवतो वचः ।
विदू-मम घरिणी ण प्पमआ। (मम गृहीणी न प्रमदा)
कासा-किं पुमान् भार्या तव ?
विदू-रहस्सगोवणे परं पुरिसो एव्व मह घरिणी । (रहस्यगोपने परं पुरुष एव मम गृहिणी)
शार-राजन् ! विदूषकेण भार्यायामपि रहस्यमिदं गोपितं स्यात्तर्हि तिष्ठत्विह ।
विदू-तारिसपडिस्सुदेवि मोत्तूण एदं रहस्सं ण कहेमि । (तादृशप्रति तमपि मुक्तः एतद्रहस्यं न कथयामि !